SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 222 अलकारमाणहारे ____ अभिरामं रमणीयं लक्ष्मीरस्मिन्नस्तीति लक्ष्मणं, पामादित्वान्मत्वर्थीये नप्रत्यये 'लक्ष्म्या अञ्च' इति लक्ष्मीशब्देकारस्य अत्वं ततो णत्वं च। ईदृशं वक्षों यस्य स तथोक्तः । कृपाभरतः दयाभारात् । सार्वविभक्तिकस्तसिः । विनतानां नित्यशत्रवः कामादयः तान् हन्तीति विनतनित्यशत्रुघ्नः मूलविभुजादित्वाद्धन्तेः कप्रत्ययः । अत्र रामादीनां चतुर्णा श्लेषोत्तम्भितमुद्रालंकाररीत्या प्रकृतानन्वयिनां क्रमेण न्यसनम् ॥ यथावालसति हासतातसीता पवनोल्ललनोमिळायसरसीका। ब्रह्माण्डव्यापिशिरा विश्रुतकीर्तिवृषाद्रिवरमूर्तिः ॥ १७७६ ॥ अत्र प्रतीतपाठसाहित्यानां सीतोर्मिळामाण्डवीश्रुतकीर्तीनां पूर्ववदेव प्रथनम् ॥ यथावा--- नित्यविभवासु देवासुरनरसंकर्षणोऽहिगिरिभूषु । प्रद्युम्नदो नतेभ्यो विहरत्यनिरुद्धशासनशौरिः ॥ १७७७ ॥ देवासुरनराणां संकर्षणः गुणभूना आकर्षकः नतेभ्यः प्रद्युम्नदः प्रकृष्टविलक्प्रदः अनिरुद्ध शासनः अप्रतिहताशः शौरिः नित्यविभवासु अहिगिरिभूमिषु विहरति । अत्र वासुदेवसंकर्षणप्रयुमानिरुद्धानां न्यसनम् ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy