SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ रत्नावळीसरः (०७) 221 यथावा अरिदमनदक्षिणाहव नीयन्ते स्म द्विषोऽपि तव धाम परम् । अहमेव गार्हपत्ये अव इह कियदवधि नाथ अवताऽऽयास्ये ॥ १७७३ ॥ ___अरिदमने दक्षिणः चतुरः आहवः युद्धं यस्य तस्य संबुद्धिः हे नाय ! द्विषोऽपि चैद्यादयोऽपि भवता तव परं धाम नीयन्ते स्म । अहमेव सर्वात्मना त्वां प्रपन्न एव । इह भवे संसारे गाईपत्ये गृहस्थधर्मोपलक्षिते तत्तदाश्रमकर्मणि गृहपतेः कर्म गाहपत्यमिात विग्रहः । “पत्यन्तपुरोहितादिभ्यो यक्' इति कर्मरूपार्थे यक् । कियदवधि भवता आयास्य आयासितो भवामि घा न जाने इति भावः । अत्र दक्षिणाहवनीयगार्हपत्यानां क्रमिकत्वम् ॥ यथावा कृतमच्युत तीर्थगणैः कृतं च नस्त्रेतयाऽपि सेवितया। स्याद्वा परोऽत्र भवतो भवतोयधितारणे कलितदीक्षः ॥ १७७४ ॥ कृतं अलम् । अत्र कृतादीनां युगानां चतुर्णी क्रमेण मुद्रालंकाररीत्या प्रकृतानन्वयिनां न्यसनमिति विशेषः॥ यथाषा देवोभिरामलक्ष्मणवक्षा रक्षार्थमहिगिरौ जगताम् । अवतीर्य कृपाभरतः स्फुरति हरिविनतनित्यशत्रुघ्नः ॥ १७७५ ।।
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy