SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 220 भलंकारमणिहारे हे हस्तिवरद ! धनाः सान्द्राः घृणयः किरणाः येषां तेषां मणीनां प्रभा अस्मिन्नस्तीति तथोक्ते ज. छविरत्नप्रभावतीति वा हरिभूभृति कटाद्रौ जगन्ति काम तापेभ्यः त्रातुं आविरभूः । पत्र गिरी हिमाः शिशिराः उत्साः प्रस्रवणानि 'उत्सः प्रसवणम्' इत्यमरः । भान्तीति तद्विरौ भगवत आविर्भावस्य तापनिवर्तनौ. पयिकत्वमुक्तम् । मत्र प्रभावमन्त्रोत्साहानां त्रयाणां प्रसिद्धसह पाठानां मुद्रालंकारविधया प्रकृतानन्वयिनां क्रमेण ग्यसनम् । पवमुत्तरोदाहरणेवपि ॥ यथावा नलिनाक्ष यः फणीश्वरशिखरिस्थानन्त तावकीनानाम् । चरणाब्जरेणुविशमितकलुषो नीवृद्वि स खलु वासार्हः ॥ १७७१ ॥ नीवृत् जनपदः । अत्र अयस्थानवृद्धीनां प्रागुक्तरीत्या क्रमेण न्यासः॥ यथावा आनर्चाब्जभवोऽयं विनयजुषा मानसेन साब्रायम् । सोऽव्यागादिरूपो अव्यात्मा दिव्यसैन्धवो भगवान् ॥ १७७२॥ सामायं ससंप्रदायं अथामायस्संप्रदाये' इत्यमरः । ऋगादिपः 'ऋग्यजुस्सामरूपाय' इति तन्मन्त्रवर्णात् । दिव्यसैन्धवः भीहयग्रीवः अत्र 'ऋचो यजूंषि सामानि योऽधीते सकृदासा' इत्यादिशास्त्रप्रतीतसहपठनानामृग्यजुस्साम्नां क्रमेण न्यसनम् । ऋगादिरूपपदेन उक्तविधक्रमनिबन्धोऽत्र सूचनीयस्सूचित इति उनालंकारशिरस्कता तु विशेषः ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy