SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ रत्नावळीसरः (७७) 219 गारुत्मतकरसेव्यं मुक्तालम्ब प्रवाळसुकुमारम्। पश्येम पद्मरागं चरणं श्रोशस्य वज्रपाणिनुतम् ॥ अत्र सहपाठसद्भावेऽपि क्रमप्रसिद्धिरहितानां गारुत्मतादीनां पञ्चानां रत्नानां उपरञ्जनाादविधया यथाकथंचित्प्रकृतान्वायनां वर्णनमितीयमपि रत्नापळी अमरूपैव ॥ यथावा - घनशृङ्गसङ्गन्ताङ्गाश्चटुलकलिङ्गास्तथा पृथुलवङ्गाः । प्रचुरमहाच्छविदर्भास्सुसंनिवेशाः फणीशगिरिदेशाः ॥ १७६९ ॥ घनानि शृङ्गाणि तैः । पक्षे धनं शृङ्गं प्राधान्यं तेन संगतं मङ्गं येषां ते । पक्षे घनशृङ्गसंगताः अङ्गाः तन्नामानो देशाः येषां ते 'शृङ्गं प्राधान्यसान्वीश्च' इत्यमरः । देशेषु मध्ये अगस्य प्रथमपरिगणनात्प्राधान्यम् । चटुलाः कलिङ्गाः खगविशेषाः कलि देशाश्च येषु ते पृथवः महान्तः लवङ्गाः लवङ्गतरवो येषु ते । पृथुलाः विशालाः वङ्गाः तन्नामानो देशविशेषाश्च येषु ते। स्पष्टमन्यत् । अत्राङ्गादिदेशतादात्म्य फणिगिरिदेशानां प्रतीयत इति क्रमप्रसिद्धिरहितानामङ्गादिदेशानां न्यसनं प्रकृतान्यपि ॥ प्रकृतानन्वयवती सक्रमा रत्नावली यथा घनघृणिमणिप्रभावति कामं त्रातुं जगन्ति तापेभ्यः । आविरभूर्हरिभूभृति यत्रोत्सा हस्तिवरद भान्ति हिमाः ॥ १७७० ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy