________________
218
अलङ्कारमणिहारे
इन्द्र इव पालितस्वस्थेमा शमन इव दक्षिणानुगतः। धनद इव राजराजो भवदीयो वरुण इव घनरसेशः ॥ १७६६ ॥
पालितः स्वस्थमा स्वर्गस्थैर्य स्वस्य धनस्य स्वैर्य च। दक्षिणा दक्षिणदिक तया अनुगतः तदीश इति यावत् । दक्षिणैः उदारैर्जनैः अनुगतश्च । राजराजः राजराजनामा राजाधिराजश्च । धनरसस्य सलिलस्य ईशः। रसायाः ईशः भूपतिः घनश्चासौ रसेशश्चेति विग्रहः । स्पष्टमन्यत् । अत्रेन्द्रादीनां चतुर्णी लोकपालानां किंचित्क्रमव्यत्ययेन कथनं उपमानविधया प्रकृतान्वयित्वं च । इदमेवाष्टानां लोकपालानां मध्ये चतुर्णामेव निबन्धनात् क्रमवैकल्यस्याप्युदाहरणम् ॥
द्विरदमुखसत्त्वहृयो भुजगाह्वयभूषणो भुवि गिरीशः। वनमाली च विचित्रं भाति सरोजातभाविताभ्युदयः ।। १७६७ ॥
द्विरदमुत्रैः गजप्रभृतिभिस्सत्त्वैः जन्तुभिः। अन्यत्र द्विरदमुखः विघ्नराजः तस्य सत्वेन स्थित्या हृद्यः। भुजग इति आह्वयः नाम भूषणं यस्य । अन्यत्र भुजगाह्वयानि फणिरूपाणि भूषणानि यस्य स तथोक्तः। गिरीशः शैलराजः शिवश्च । वनमाली काननपतिमांश्च भगवानपीति च। सरोजातेन कासारनिवहेन पक्षे सरोजाते पन्ने भावितः अभ्युदयः उच्छ्यः आविर्भावश्च यस्य स तथोक्तः । अत्र प्रसिद्धक्रमाणां ब्रह्मविष्णुशिवानां सर्वथा वैपरीत्येन कथनम् । उपरञ्जनविधया प्रकृतान्वयित्वं च ॥