________________
रत्नावळीसरः (७७)
217
तस्य भावः । अनन्त अपरिच्छिन्नं, अन्यत्र आकाशः । अत्र पृथिव्यादिमहाभूतानां पश्चानां किंचित्क्रमव्यत्ययेन प्रतिपादनमुपरञ्जकतया प्रकृतान्वयित्वं च ॥
यथावाधृष्टिं जयन्तमच्युत विजयं सिद्धार्थमर्थसाधकताम् । गतमाहुरशोकं तव गिरा सुमन्त्रं च मन्त्रपालं च ॥ १७६५॥
हे अच्युत! धृष्टिं धैर्य जयन्तं भभिभवन्तं समरारम्भे स्वजनान् योदुमवस्थितानभिवीक्ष्य शोकेन त्यक्तधैर्यमित्यर्थः । इदं च ‘सीदन्ति मम गात्राणि' इत्यादौ स्पष्टम् । विजयं अर्जुन तव गिरा गीतारूपया 'न त्वेवाहं जातु नासं न त्वं नेमे जमाधिपाः' इत्यारभ्य ‘मोक्षयिष्यामि मा शुचः' इत्यन्तया अशोकं त्यक्तशोकम् । शोभनो मन्त्रः आलोचनं यस्य तथाभूतं मन्त्रं चरमश्लोकरूपं पालयतीति तथोकं 'निधिपायाप्रमादिने, इत्युक्तरीत्या मन्त्रं गोपायितारम् । अर्थस्य शवविजयरूपप्रयोजनस्य साधकतां गत प्राप्तं अत एव सिद्धः अर्थः प्रयोजन यस्य तं तथोक्तं आहुः जना इति शेषः। गीतोपदेशेन त्यक्तमोहतया यथावत् क्षत्रधर्ममनुष्ठाय लन्धविजयमित्यर्थः । अत्र
धृष्टिजयन्तो विजयस्सिद्धार्थों ह्यर्थसाधकः । अशोको. म.. लश्च सुमन्त्रश्चाष्टमोऽभवत् ॥ इति श्रीरामायणे प्रसिद्धसहपाठानां रघुकुलसचिवभूतधृष्टयादीनामष्टानां यात्कंचित्कमावपर्यासेन प्रकृतान्वायनां वर्णनमुपरञ्जकतयति ध्येयम् ॥
ALANKARA-III.