________________
216
अलंकारमाणिहारे
भगवदाश्रितस्य भास्वदाद्यात्मता प्रतीयत इति प्रसिद्धसहपाठानां भास्वदादीनां नवानां ग्रहाणां क्रमेण प्रकृतान्वयितया न्यासः॥
यथावा
जहि कामं क्रोधं जय जहीहि लोकं जहाहि मोहं च । जहिहि मदं मत्सरमपि विसृज हरेर्न नु कटाक्षपात्रं स्याः ॥ १७६२॥ __अत्र प्रसिद्धसहपाठानां कामादीनां षण्णां समुश्चयालंकारविधया प्रकृतान्वयिनां कामिकत्वम् ।
प्रकृतान्वयशालिनी अक्रमा यथा--- यममार्जय नियमं श्रय जितासनो विन्दसे सखे ब्रह्म। प्राणायामप्रत्याहारी ध्यायन सधारणसमाधिः ॥ १७६३ ॥ ___ अत्र ‘यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि' इति पातञ्जलसूत्रोदितकमाणां यमादानां समुच्चय'विधया प्रकृतान्वयिनां किंचित्क्रमविपर्यासेन न्यसनम् ॥
पृथ्वी संपत्तेजो निरवधिकं सर्वतोमुखं च यशः। भाति शुभस्पर्शनता तव गुणजातं त्वनन्तमेव हरे ॥ १७६४ ॥
पृथ्वी महती 'ओतो गुणवचनात्' इति ङीष् । पक्षे भूरित्यर्थः। तेजः प्रभावः, पक्षे अग्निः। सर्वतोमुखं विश्वतः प्रसूमरं पक्षे जलम् । शुभस्पर्शनता शुभं स्पर्शनं दानं यस्य स तथोक्तः। तस्य भावः । अन्यत्र शुभः यः स्पर्शनः वायुः