________________
रत्नावळीसर: (७७)
भुवनानां अपां पतिः वरुणः । पक्षे लोकानामधिनाथः । जग
त्प्राणः समीरणः जगदुजीवयिता च ।
215
न प्राणेन नापानेन मतों जीवति कश्चन । इतरेण जीवन्ति यस्मिन्नेतावुभौ श्रितौ ॥
तु
इति श्रुतेः । पुण्यजनेड्यः कुबेरः सुकृतिजनस्तुतश्च । शिवः शर्वः मङ्गळमूर्तिश्च 'शाश्वतं शिवमच्युतम्' इति श्रुतेः । अत्र प्रसिद्धसहपाठानामष्टानामिन्द्रादिलोकपालानामुपरञ्जकतया प्रकृ तान्वयिनां क्रमेण न्यसनम । उपरञ्जकता चारोप्यमाणता । तदुक्तं'उपरञ्जकतामेति विषयी रूपकं तदा' इति । अत्र हि श्रीनिवा सस्य इन्द्रादितया उपरञ्जनम् ॥
यथावा---
भास्वान् राजा पार्थिव एष बुधो वाक्पतिश्च काव्यप्रथितः । मैत्रयाख्यातश्चोत्तम उच्छ्रित जयकेतुराश्रितस्त्वां भगवन् ॥ १७६१ ॥
पृथिव्यां विदितः पार्थिवः ' तत्र विदितः' इत्यधिकारे ' सर्व - ' भूमिपृथिवीभ्यामणत्र' इत्यम् । पक्षे पृथिव्यां जातः पार्थिवः । भौम इत्यर्थः । काव्येन प्रथितः स्वविषयकप्रबन्धप्रख्यातकीर्तिरि त्यर्थः । स्वप्रणीतेन काव्येन प्रख्यात इति वा पक्षे काव्य इति प्रथितः । मैत्रया सर्वभूतसुहृत्तया ख्यातः । अन्यत्र मित्रस्य भानोः अपत्यं मैत्रिः मैत्रिरिति आख्यातः रविसुतश्शनिरित्यर्थः । उत्तमः श्रेष्ठः । पक्षे उन्नतं च तत् तमः राहुरित्यर्थः । 'तमस्तु राहुः इत्यमरः । उच्छ्रितः जयकेतुः जयध्वजो यस्य सः । पक्षे उच्छ्रितजयश्चासौ केतुश्व । शिष्टं स्पष्टम् । अत्र भास्वदादिपदैः वर्णनीयस्य
C
"