SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 214 अलंकारमणिहारे इति । अस्याश्श्रुतेरर्थश्च उक्तविशेषणैः प्रत्याभिशाप्यते । वात्सल्यं नाम दोषतिरस्कारिणी प्रीतिः । पक्षे सकलजनहृदयंगम. हिरण्यादिकोशमध्यवर्तीत्यर्थः। एवं सकलचेतनहृदयस्थोऽपि त्वं दुर्दर्श इत्याह-तदपीत्यादि । तदपि तथाऽपि तव पदं स्वरूपं त्वत्प्रसादबलविधुरैः जनैः दुर्ग अधिगन्तुमशक्यं तं दुर्दर्श गूढमनुप्रविष्टं, तद्यथा हिरण्यनिधि निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुः' इत्यादिश्रुतिभ्यः। पक्षे तत् प्रसिद्धं तव पदं स्थानमपि त्वत्प्रसादेन बलेन सैन्येन च विधुरैः दुर्ग गन्तुमशक्यमित्यर्थः । अत्र 'स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ' इति प्रसिद्धसहपाठानां स्वाम्यादीनामुपरकतया प्रकृतान्वयिनां सतानां क्रमिको न्यासः ॥ यथावा-- हरिरेष शुचिर्धर्मश्श्रितरक्षश्श्रीः पतिश्च भुवनानाम् । परिपात जगत्प्राणः पुण्यजनेड्यशिशवश्व मादृक्षान् ॥ १७६०॥ एष हरिः इन्द्रः भगवांश्च । शुचिः वह्निः अपहतपाप्मा च । धर्मः यमः । पक्षे 'कृष्णं धर्म सनातनम्' इत्युक्तरीत्या धर्मस्वरूपः । श्रिता रक्षसां श्रीः येन सः नैऋत इत्यर्थः। पक्षे श्रितान् रक्षतीति श्रितरक्षी । कर्मण्यणि 'टिड्ड' इति ङोप् । तादृशी श्रीः लक्ष्मीः यस्य स तथोक्तः । अनदीसंज्ञकत्वान्न कप्। यद्वा भग वत्पले धर्मश्रितरक्षश्श्रीरित्येकमेव पदम् । धर्म न्यासरूपं श्रितान् रक्षतीति धर्मश्रितरक्षी तादृशी श्रीः यस्य सः । अस्मिन् पक्षे धर्मश्रितेत्यत्र शकारस्य ‘अनचि च' इति वैकल्पिक द्वित्वम् ।
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy