________________
रनावळीसरः (७७)
213
श्रवणात् । सुमिता च तदामननात्फलिता दृष्ट्या च मामिका भक्तिः ॥ १७५८ ॥
सुमिता पुष्पिता । दृष्टया दर्शनेन । अत्र भक्तौ लतात्वारोपः । अत्राङ्कुरितेत्यादिना अङ्गुरपल्लवकुसुमफलानां चतुर्णी लोकसिद्धक्रमाणामुपरजकतया विन्यासः॥ __ स्वामी त्वं श्रीसचिवस्सकलसुहृत्सर्वहृद्यकोशस्थः । चक्रधर तदपि तव पदमतिदुर्ग त्यत्प्रसादबलविधुरैः ॥ १७५९ ॥
हे; चक्रधर! चक्रशब्देन राष्ट्रमपि गृह्यते 'चक्रं राष्ट्रपि' इत्यमरः । त्वं स्वामी सर्वेश्वरः ‘एष सर्वेश्वरः' इत्यादिश्रुतेः । अनेन परत्वमुक्तम् । पक्षे कश्चिद्राजेत्यर्थः । श्रीः लक्ष्मीः सचिवा सहायो यस्य स तथोक्तः 'मन्त्री सहायसचिवौ' इत्यमरः । लक्ष्म्यास्सचिव इति वा । पक्षे श्रीयुक्तसचिवो मन्त्री यस्य स तथोक्तः । अनेन पुरुषकारसांनिध्येन परमदयालुता सूचिता । सकलसुहृत् । 'निवासरशरणं सुहृद्गतिर्नारायणः' इति श्रुतेः । अनेन सौलभ्यमुक्तम् । पक्षे सकलाः कलासहिताः राजनयनिपुणा इत्यर्थः । तादृशाः सुहृदो मित्राणि यस्य स इत्यर्थः । सर्वेषां हृद्यः हृदयस्थितः कोशः तस्मिन् तिष्ठतीति तथोक्तः 'पद्मकोशप्रतीकाशम्' इत्यारभ्य तस्मिन् सर्व प्रतिष्ठितम्' इति श्रुतेः। अनेन वात्सल्यं व्यञ्जितम् । स एष वात्सल्याख्यो गुणः कठवल्लयामुक्तः
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूतभव्यस्य न ततो विजुगुप्सते ॥