________________
212
अलङ्कारमणिहारे
च यथाकथंचित्प्रकृतोपमानोपरजकतादिप्रकारेण । तदनन्वयित्वं च क्रमेण तत्तन्नाम्नां यथाकथंचित् श्लेषभङ्गया मुद्रालंकारविधया वा निवेशनेन भवति । सर्वमिदमुदाहरणेषु स्पष्टभिविष्यति' इयमपि दीक्षितोपशमेव ॥ . तत्र प्रकृतान्वयवती सक्रमा यथा
विधिरिव सकलागमवान् हरिरिव पीताम्बरो विभाति तराम्। गिरिश इव शिरसि वहते सरसिजनयनाभिसरितमहिशैलः ॥ १७५६ ॥ _ सकलाः अगमा तरवः आगमाः वेदाश्च तद्वान् । पीतं अम्बरं येन स तथोक्त: 'निसर्गोदरेण प्रसभमुरसा पीतगगनः' इतिवत् स्वाभोगेनाकान्तगगन इत्यर्थः । सरसिजनयनः हरिः तदविजां सरितं आकाशगङ्गां गङ्गांच । स्पष्टमन्यत् । अत्र सृष्टिस्थितिलय कर्तृतया पुराणादौ प्रसिद्धसहपाठानां ब्रह्मविष्णुमहेश्वराणां त्रयाणामुपमानविधया प्रकृतान्वयिनां क्रमेण न्यसनम् ॥
यथावाक्षितिरिव तितिक्षुरासीस्सलिलमिवाप्यायनोऽनल इव त्वम् । तेजस्वाननिल इव व्यापी वियदिव विनिर्मलरशौरे ॥ १७५७ ॥ ___ अत्र उपमानरीत्या प्रकृतान्वयिनां हित्यप्तेजोमरुद्वयोम' इति पुराणादौ सहपठितानां पश्चानां महाभूतानां क्रमेण न्यासः ॥
सैव उपरञ्जकतया प्रकृतान्वयिनी यथाअङ्करिता सुकृतवशात्पल्लविता देव तव गुण