________________
211 ........
.......
रत्नावळीसरः (७७)
... द्रष्टव्यम् । अत्र क्रम इति पदेन चतुर्थपादादिमभूतेन स्वादिभूतककाररेफसंयोगस्य एतत्पद्यप्रदर्शितलक्षणलक्षितस्य क्रम इति संज्ञति सूचनीयोऽर्थस्स्वानतिरिक्तोदाहरणेन तादृशसंज्ञाप्रयोज. नेन च संह सूचितः । इयं च प्रकृताप्रकृतगोचरश्लेषेण प्रागुक्तोल्लासेन च संकीर्यत इति विशेषः । तुरीयपादादिमवर्णस्य लघुतरप्रयत्नेनोच्चारणे पद्यस्य विसंष्ठुलताऽपि न दृश्यत इति ध्येयम् । एवं नवरत्नमालाप्रबन्धे तत्तद्रत्ननामनिवेशनेन तत्तद्रत्नजातिसूचनम् । नक्षत्रमालाप्रबन्धे अग्नयादिदेवतानामभिर्नक्षत्रनामसूचनमित्यादावयमेवालंकारः। एवं नाटकेषु वक्ष्यमाणार्थसूचनेष्वपीति दीक्षिताः॥
इत्यलंकारमणिहारे मुद्रालंकारसरष्षट्सप्ततितमः.
अथ रत्नावळीसरः (७७)
प्रसिद्धसहपाठानामर्थानां न्यसनं यदि । रत्नावळी सा विख्याता सक्रमाक्रमताभिदा ॥
लोकवेदादिप्रसिद्धसहणठानामर्थानां न्यसनं रत्नावळीनामालंकारः । सा च सक्रमत्वाक्रमत्वाभ्यां द्विप्रकारा। सक्रमत्वं च प्रसिद्धसहपाठानामर्थानां क्रमेण न्यसनम् । अक्रमत्वं च प्रसिद्धक्रमे केषांचिदर्थानां वैकल्येन कथनं वैपरीत्येन कथनं सहपाठसद्भावेऽपि क्रमप्रसिद्धिराहित्यं च । प्रकारद्वयेऽपि क्रमिकाणामर्थानां प्रकृतान्वयित्वतदभावाश्यां प्रत्येकं द्वैधो। प्रकृतान्वयित्व