________________
224
अलकारमणिहारे
पाण्डुराः' इत्यमरः । आशु उद्रावितं प्रद्रावितं 'प्रद्रावोद्राव सन्द्रावाः' इत्यमरः । दुरितं येन सः ।
वें पापमिति संप्रोक्तं कटस्तस्य तु दाहकः । पापानां दाहकत्वाद्धि वेंकटाद्रिरितीर्यते ॥
इति तस्य पापहारित्वप्रसिद्धः। ते भवतः धराधरः शेषाद्रिरित्यर्थः । 'चातुर्वर्ण्य चतुरक्षरत्वं धराधरशब्दस्य तथाविधत्वादिति भावः । प्रथयति । अत्र ब्रह्मक्षत्रवैश्यशूद्राणां क्रमेण न्यसनम् । चातुर्वर्ण्यपदेन उपपादितब्रह्मक्षत्रादिसूचनान्मुद्राच पू. वदेव ॥
यथावा
त्वदिव्यचरितवर्णी न्यासेन त्वां गृहीतवान्मतिमान् । त्वद्भावनस्थितोऽयति परमं धामाश्रमान्वितो भगवन् ।। १७८१ ॥
हे भगवन् ! तदिव्यचरितं वर्णयतीति तथोक्तः । न्यासेन भरन्यसनेन त्वां गृहीतवान् वशीकृतवान् गृहीतवानित्यनेन उप याम गृहीतोऽसि ब्रह्मणे त्वा महस ओमित्यात्मानं युजीत' इति न्यासकरणमन्त्रगतं गृहीतपदं प्रत्यभिज्ञाप्यते। तव भावने सितः मतिमान् अश्रमेण उपायान्तरानुष्ठानप्रयासराहित्येनैव परमं धाम अयति प्राप्नोति ‘इटकिटकटि' इत्यत्र प्रश्लिष्टस्य इधातो: लट् । अत्र ब्रह्मचारिगृहस्थवनस्पयतीनामाश्रमिणां स्मृत्यादिषु सहपठितानां क्रमिको न्यासः । अयमेवाश्रमणेति पदेन सूच्योर्थस्सूचित इति पूर्ववदेव सर्वम् । वर्णिगृहिशब्दाभ्यां ब्रह्मचारि. गृहस्थी गृह्यते॥