SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ पर्यायालङ्कारसरः (५३) इदं स्वस्मिन्नेव भगवतो भूयसी कृपेत्यभिमन्यमानस्य कवेर्वचनम् । अत्र करुणाया उत्तरोत्तरमाधारसङ्कोचात्सङ्कोचपर्यायोऽयम् ॥ यथावा 13 परमेष्ठिपदान्महतो गिरिशजटाजूटकोटरे लना | अरविन्दवासिनि ततो लीना मन्दस्मितेऽम्ब तव गङ्गा ॥ १४३० ॥ अत्र गङ्गाया उत्तरांत्तरमाधारसङ्कोचः । अतिशयोक्तचनुप्राणितत्वमुभयत्र तुल्यम् । पूर्वमुदाहरणमुत्प्रेक्षाशिरस्कं, इदं तु वक्ष्यमाणमीलितशिरस्क मिति भिदा ॥ विकासपर्यायो यथा— अम्ब यदैश्वर्यं त्वयि संबन्धात्तव तदम्बुजाक्षेऽपि। संबद्धं किं बहुना त्रयम्बकमुखसुरकदम्बकेSपिं ततः ।। १४३१ ॥ अम्बुजाक्षे भगवति श्रीनिवासे । अत्रैश्वर्यस्य पूर्वपूर्वाधारापरित्यागेनैवाधारान्तरसंक्रमणम् । विकास पर्यायोऽयम् ॥ यथावा वक्षस्पेक्ष्यत ते कौस्तुभसौवस्तिके कठोरत्वम् । एतर्हि पातकान्मम चेतस्यपि दैत्यशातनोदीतम् ॥ १४३२ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy