________________
12
अलङ्कारमणिहारे
पदम् । वाताशनगिरिशिखरे जातावासो रमानिवासात्मा ॥ १४२६ ॥
अत्र प्रयोजकानीभधानं स्पष्टम् ॥ तदभिधाने यथा
प्रवरा मौक्तिकमणयः प्रवाळमतिरुचिरममृतसारश्च । वारिधिना स्वसुताया वदने वात्सल्यतो न्यधायिषत ॥ १४२७ ।।
अत्र वारिधिना वात्सल्यत इति प्रयोजकनिर्देशः । अत्रोसममुक्ताफलादोनामर्णवलक्ष्मीवदनरूपानकाधारनिवेशनम् । अ. र्णवस्याधारता आर्थो । पूर्वोदाहरणेषु तु सा शाब्दी। इयं रदनादीनां मुक्ताफलादिकत्वनाध्यवसानाद्रूपाकातिशयोक्त्यनुप्राणिता चति विशेषः॥
यथावाविद्रुमगतमारुण्यं विधिना तव दशनवसन योय॑स्तम् । तदनु पदनलिनयुग्मे स्वप्रौढिप्रथनकुतुकतोऽब्धिसुते ॥ १४२८ ॥ _ अत्रापि विधिना स्वप्रौढिप्रथनकुतुकत इति प्रयोजकनिदेशः । अयं सर्वोऽपि संकोचविकासास्पृष्टतया शुद्धपर्यायः॥
संकोचपर्यायो यया- . __जगदखिलं व्याप्य पुरा जरदिभमुख्येष्वथ कचिल्लग्ना। अगणितगुण तव करुणा निगळितचरणा किलाद्य मय्येव ॥ १४२९ ॥