________________
पायालङ्कारसरः (१३)
11
अथ पर्यायालंकारसरः (५३)
अधेयस्य क्रमादेकस्यानेकाधारसंश्रयः । वर्ण्यते यत्र तत्रोक्ता पर्यायोऽयमलंकृतिः ॥
यत्रैकमाधेयमनेकस्मिन्नाधार क्रमात् स्वतो. भवति कविना वा निबध्यते तत्र पर्यायालंकारः। अत्र ‘अन्तर्बहिः पुरः पश्चासर्वदिश्वपि सैव मे' इति विशेषालंकारव्यावृत्तये क्रमेणेति । तत्र ह्याधेयस्य युगपदनेकाधारसंबन्ध इति नातिप्रसङ्गः। अत एव क्रमाश्रयणात्पर्याय इत्यन्वर्था संज्ञा । अस्य च प्रयोजकाभिधानानभिधानाभ्यां द्वैधी॥
यथा• दुग्धोदन्वति पूर्व मुग्धेन्दौ तदनु विदधती वासम् । अधुन' तु सुधा निवसति मधुनाशन तावकीनचरितेषु ॥ १४२५ ॥
अत्रैकस्यास्सुधायाः क्रमेण दुग्धोदन्वदाद्यनकाधारसंश्रयणं निबद्धम् । तत्र दुग्धोदन्वन्मुग्धेन्वास्सुधायास्स्थितिवस्तुलत्येवोता। वर्णनीयभगवञ्चरितेषु तु कविना परं निबद्धा । यत्राधाराधेयतत्संबन्धक्रमेषु क्वचिदपि वा कविकल्पनापेक्षाऽस्ति तधायमलंकारः । यत्र तु सर्वाशे लोकसिद्धत्वं न तत्र कश्चिदलकार इति तु तत्त्वम् ॥
यथावाचिन्तामणिस्सुधाधस्सुधाशनाधिपपके निधाय