________________
अलङ्कारमणिहारे
षोः। भवतस्स्म शाषशषौ भगवंस्तत्प्रकृतिगुणसिदावशतः ॥ १४२४ ॥ .
- हे देव भगवन् ! त्वत्प्रातिकूल्यसख्यजुषोः दशवदनविभीषणयोः शोषशेषौ भवतः स्म अभूताम् । रावणस्य शोषः विभीषणस्य शेष इति भावः। शुषशिषोर्भावे घञ् । तत्र हेतुमाह-तदिति । तयोः दशवदनविभीषणयोः प्रकृतिगुणानां स्वभावसिद्धगुणानां 'दम्भो दर्पोऽभिमानश्च' इति, 'अभयं सत्त्वसंशुद्धिर्ज्ञानयोगश्वस्थितिः' इति च गीतानां आसुरसंपद्गुणानां दैवसंपद्गुणानां च भिदावशात् भेदवशात् भवतः स्मेति योजना । भवतेः स्मयोगेन भूते लट् । आसुरसंपदभिजाततया भगवत्प्रातिकूल्यन दशाननस्य नाशः। दैवसंपदभिजाततया तत्सख्येन विभीषणस्यायुरादिश्रेयस्वत्तया पारिशेष्यं चाभूतामित्यर्थः । पक्षे प्रकृती प्रत्ययविधावुद्देश्यभूते धातुरूपे । तयोः गुणौ तद्भिदावशतः घनिमित्तकतया ‘पुगन्तलघूपधस्य' इति विहितगुणयोश्च भेदवशादित्यर्थः। शुषु शिष् इति प्रकृती भिन्न तयोर्गुणौ ओकारैकारलक्षणौ च भिन्नौ तादृशभेदवश त् शौष इति शेष. इति शब्दौ निष्पन्नाविति भावः । अन्यत्तुल्यं . पूर्वेण ॥
अत्रेदं विवेचनीयं-इदं यथासंख्यमलंकारसरणिमाढौकितुमीष्टे वा न वेति । न ह्यस्मिन् लोकसिद्ध कविप्रतिभानिर्मितत्वस्यालंकारताजोवातोत्रियाऽप्युपलम्भाऽस्ति । येनालंकारव्यपदेशो मनागपि सांप्रतं स्यात् । अतः अपक्रमत्वरूपदोषाभाव एक यथासंख्यम् । एवंचोद्भटमतानुयायिनामुक्तयः कूटकाोंपणवदमनोहारिण्य एव । एतेन य यासंख्यमेव क्रमालंकारसंशया व्यवहरतो वामनस्यापि गिरो व्याख्याता इति नव्याः॥
इत्यलंकारमणिहारे यथासंख्यसरो द्विपञ्चाशः.