________________
यथासङ्खयालङ्कारसरः (१२)
अर्थ यथासंख्यं यथा ---
जलरुहजलनिधिवसती हृदयोन्जलरत्नहारवनमालौ। हृत्सौधे सध्यञ्चौ प्राञ्चौ जायापती विहरतां नः॥ १४२२ ॥
अत्र जलरुहजलनिधिवसती इत्यादिसमुदायस्य प्रथमं जायापतिरूपसमुदायान्वये सति पश्चादानुरोधेन जलरुहादेर्जायायां जलनिध्यादेः पत्यौ च समन्वयधीरित्यार्थो यथासंख्यालंकारः ॥
यथावा-.
तावकमतिविभवाभ्यां बृहस्पतिदिवस्पती समं विजितौ । बृहदिव वैलक्षण्यं प्रकाशयेते मिथस्तदप्येतौ ॥ १४२३ ॥
बृहस्पतिदिवस्पती गुरुसुत्रामाणौ। तावकानां भागवता- नां मतिविभवाभ्यां समं तुल्यं विजितौ। तदपि विजितत्वतो. ल्येऽपि एतौ बृहस्पतिदिवस्पती मिथः अन्योन्यं वैलक्षण्यं भेदं बृहदिव महदिव प्रकाशयेते विजितत्वरूपेणावैलक्षण्येऽपि तत्- महदिव दर्शयेते इत्यर्थः । यद्वा इवशब्दो वाक्यालंकारे । गुरु. शिष्यत्वरूपं महद्वैलक्षण्यं दर्शयेते इति हृदयम् । पक्षे बृहस्पतिदिवस्पतिशब्दौ बृह दिव इति वर्णाभ्यामेव वैलक्षण्यं प्रकाशयेते । न वन्यवर्णत इत्यर्थः । अत्रापि पूर्ववदेव सर्व, शब्दपरार्थान्तरवनं तु विशेषः ॥
यथावादशवदनविभीषणयोर्देव त्वत्प्रातिकूल्यसख्यजुALANKARA -- III.