________________
अलङ्कारमणिहारे
द्यमाना भाः यस्य अभाः सुष्ठु अभाः स्वभाः अतिवेलतेजोहीन इत्यर्थः। न हि सुरापस्य ब्रह्मतेजो भवेदिति भावः । मत्तश्वासौ स्वभाश्चेति विशेषणोभयपदकर्मधारयः । कुतोऽनयोर्वेष म्यमित्य : अह-तदाकारेति । यत् यस्मात् अयं चरमनिर्दिष्टः काळीभक्तः तदाकारविप्रतीपः तदाकारस्य प्रथमनिर्दिष्टश्रीभक्ताकारस्य तदाचारस्येति यावत् विप्रतापः प्रतिकूलः सदाचारघामाचारयोरतिविप्रकर्षादिति भावः। पक्षे-अयं सुराप इति शब्दः तदाकारविप्रतीपः तस्य सुरपशब्दस्य आकारण आवणेन मध्यस्थेनति भावः। विप्रतीपः विरुद्धरूपः। मध्ये आवर्णसद्भावात्सुरपशब्दविरुद्धरूप इति भावः। एवं अयं मत्तस्व. भाश्शब्दः तदाकारस्य भास्वत्तमशब्दस्वरूपस्य विप्रतीपः प्रति. लोमः। भास्वत्तम इति शब्द एव प्रातिलोम्येन दृष्टो मत्तस्वभा इति निष्पद्यत इत्यर्थोऽपि चमत्कारातिशयं पुष्णाति । अत्रापि शाब्द एव । पूर्वस्माद्वैलक्षण्यं तु स्फुटमेव ॥ ___ यथावा- अम्ब त्वदाश्रितानामितरेषामपि शरीरिणांभवति । विपुलैश्वर्यं विरलैश्वर्यं चात्रास्ति पुरत एव भिदा ॥ १४२१ ॥ _ विपुलैश्वर्य भूमीश्वरत्वं विरलैश्चर्य अल्पविभवः । अत्र अनयोः त्वदाश्रितेतराश्रितयोः तद्विभवयो । पुरतः अग्रत एव भिदा भेदः अस्ति । स्पष्टमेव प्रकाशत इत्यर्थः। पक्षे अत्र विपुलैश्वर्यविरलैश्वर्यशब्दयोः पुरत एव पुवर्णरवर्णाभ्यामेव भिदेत्यर्थोऽपि चमत्कारी। अत्रापि शाब्द एव ॥