________________
यथासङ्ख्यालङ्कारसरः (५२)
'पुष पुष्टौ ' ' मुष स्तेये ' इमावपि कैयादिकावेव । अत्र पुष्णासीत्यादिक्रियाणां क्रमेण तृष्णादिष्वन्वयः । इह शाब्दः, असमस्तानामसमस्तैः क्रमेणान्वयात् ॥
यथावा
7
नयनरुचा वदनरुचा कमलं विमलांशुबिम्बमपि कमले । नूनं जितं भवत्या जलं निविशते महाबिलं चापि ॥ १४१९ ॥
महाबिलं महत्सुषिरं अन्तरिक्षंच । ' मेघद्वारं महाबिलम्' इत्यमरः। इदमपि शाब्दं उत्प्रेक्षागर्भ, पूर्व तु शुद्धमिति विवेकः॥
यथावा
यौ श्रीकाळीभक्तौ सुरपोऽत्राद्यः परस्सुरापो भविता । भास्वत्तमोऽथ मत्तस्स्वभास्तदाकारविप्रतीपो यदयम् || १४२० ॥
--
"
यौ श्रीः लक्ष्मीः काळी दुर्गा तयोः भक्तौ उपासकौ, अत्र अनयोर्मध्ये, आद्यः श्रीभक्तः सुरान्पातीति सुरपः देवाधीशः तत्तुल्यो वा अत एव भास्वत्तमः अतिशयेन भास्वान् महातेजश्शाली च भविता । परः काळीभक्तस्तु सुरापः सुराणां देवानां नपातीत्यपः देवारक्षक इत्यर्थः । सुरां पिवतीति तथोकः मद्यप इति तवम् । काळिकोपासकानां वामाचारस्य प्रसिद्धस्वादिति भावः । क्रमेण 'पा रक्षणे, पा पाने' इति धात्वोंः 'आतोऽनुपसर्गे' इति कः । अत एव मत्तः मदशाली | अवि