SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अलङ्कारमणिहारे अथ यथासंख्यालङ्कारसरः, (५२) उद्देशकमतोऽर्थानां संबन्धो यत्र कथ्यते । प्राञ्चस्तत्र यथासंख्यमपरे क्रममूचिरे ॥ ययासंख्यमिति पदार्थानतिवृत्तिरूपे अथार्थेऽव्ययीभावः । संख्याया अनतिवृत्तिश्च आद्यस्यायेनैव द्वितीयस्य द्वितीयेनैवेत्यादिक्रमेण सम्बन्धो भवतीति योगार्थ एवं लक्षणम् । अन्ये एनं यथासंख्यं क्रमालङ्कार इति व्यवाहार्षुः । स च शाब्दः आर्थश्चेति द्विविधः । तत्रासमस्तानामसमस्तैः क्रमेणान्वये शाब्दः, ऋमिकसम्बन्धस्यातिरोहितत्वात् । यत्र तु समुदायद्वयस्य समासेनाभिधाने सति प्रथममेकस्य समुदायस्यापरेण समुदायेन सामान्यतस्समन्वये सति पश्चादानुगमपर्यालोचनया तत्समुदायिनां क्रमेण संबन्धस्तत्रार्थः ॥ यथाविष्णो विनतजनानां तृष्णां हृदयं सुखं च दुःखं च। प्रुष्णासि प्लुष्णासि च पुष्णासि वृषाद्रिनाथ मुष्णासि ॥ १४१८॥ ___ हे वृषादिनाथ विष्णो! विनतजनानां तृष्णां पुष्णासि पूरयसि । हृदयं प्लुष्णासि सेवसे। तत्र वससीत्यर्थः । स्वस्मिन् नेहयसीति वा । 'मुष प्लुष स्नेहनसेवनपूरणेषु' इति क्रैयादिकाभ्यां धातुभ्यां लट् । सुखं पुष्णासि दुःखं मुष्णासि च
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy