________________
14
अलङ्कारमणिहारे
हे दैत्यशातन दैत्यारे! इदं संसारभारनिविण्णस्य कवेभंगवन्तं प्रत्युपालम्भवचनम् । अत्रापि पूर्ववदेव विकासपर्यायः । कठो. रत्वशब्दप्रतिपाद्यकाठिन्य घृण्यरूपार्थद्वयश्लेषनियूंढत्वं विशेषः॥
अत्र रसगङ्गाधरकृत् - " एकसंबन्धनाशोत्तरमपरसबन्धे सत्येव लोके पर्यायपदप्रयोगदर्शनात् 'श्रोणीबन्धस्त्यजति तनुतांसेवते मध्यभागः' इति प्रकाशोदाहृते तथैव दृष्टत्वाञ्च ।
बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमहश्यत ।
अधुना हृदयेऽप्येष मृगशाबाक्षि दृश्यते ॥ . इत्यत्र पर्यायकथनमयुक्तम्" इत्यभाणीत् । अन्य तु प्रकाश एव 'बिम्बोष्ठे' इति पद्यस्योदाहरणेन पर्यायस्य समर्थनात् अलङ्कारशास्त्रपरिभाषितानां शब्दानां लोकव्यवहारविसंवादस्याकिंचित्करत्वाच्च तदुक्तमचतुरश्रमेवेति वदन्ति ॥
क्रमादाधार एकस्मिन्नाधेयानेकताऽपि सः।
एकस्मिन्नाधार क्रमादनेकाधेयवर्णनं च पर्याय इत्यर्थः । वक्ष्यमाणसमुच्चयालङ्कारवारणाय क्रमादिति । तत्र हि गुणक्रिययोर्योगपद्येनान्वयः । विनिमयाभावात्परिवृत्तिलक्षण्यम् । तस्याः विनिमयो लक्षणत्वेनानुपदमेव वक्ष्यते ॥
यथा-- भवजलनिधिचिन्तनतो भयचकितः पूर्वमथ सनिविण्णः । त्वद्गुणगणगणनादथ धीरो विन्दामि माधवानन्दम् ।। १४३३ ॥ - हे माधवति संबुद्धिः । अत्र प्रथमं भयचकितत्वं अथ निर्वेदः ततो धैर्य अनन्तरमानन्द इत्येकस्मिन्नेवाधार क्रमादनेकाधेयवर्णनम् ॥