________________
208
अलकारमणिहारे
- अत्र भद्राशब्देनार्थवता भद्रकरणनामसूचनम् ! मुद्रेति मुद्रालंकारस्यापि सूचनमिति विशेषः ॥
शकुनिध्वजाविभाज्यं सकलं तत्किमपि तस्य साम्राज्यम् । दत्तां विभवं प्राज्यं तत्तादृशमखिलविबुधपरिपूज्यम् ॥ १७४९ ।।
अत्र शकुनीत्यर्थवत्पदैकदेशेन शकुनिकरणनाम्नस्सूचनम् ॥
सुचतुरमतिरपि यस्ते न चरणकमलद्वयं नमेजात । अचतुष्पात्खर एव स न च विशयोऽत्रास्ति वचननिचयैः किम् ॥ १७५० ॥ अत्र चतुष्पादिति पदैकदेशेनार्थवता चतुष्पात्करणनामसूचनम् ॥
नागवरभोगबाही रागवती भगवतीह वागीशे। द्रागवतात्प्रचुरभवोद्वेगवतोऽस्मान् कृपाझरी काऽपि ।। १७५१ ॥ ___अत्र नागवति पदैकदेशभूतेन नागवेति पूर्णत्रयेण नागवाख्यकरणनामसूचनम् ॥
भवभरतपर्तुतापा भवन्ति तेऽमी चिरं न साटोपाः। कमलापागा मानसकेकिंस्तु घ्नन्त्यमून् घनस्मेराः ॥ १७५२॥
- हे मानसकेकिन्! चित्तमयूरोति संबुद्धिः । तेऽमी भवभरतपर्तुतापाः श्रीमागमोमाणः चिरं साटोपाः सावष्टम्भाः न भवन्ति । कुत इत्यत आह-कमलेति। घनस्मेराः प्रावृषेण्यजलदमनोहराः। इदं विशेषणं तापाटोपलोपनैपुण्याभिप्रायगर्भम् ।