________________
मुद्रासरः (७६)
209
कमलायाः श्रियः अपाङ्गाः कटाक्षाः अमून् तापान् प्रन्ति । तुशब्दोऽवधारणे ‘स्युरेवंतुपुनर्वैवेत्यवधारणवाचकाः' इत्यमरः । मन्त्यवेत्यर्थः । अतस्ते न चिरं स्थास्यन्तीति भावः । अत्र केकिंस्तुमन्तीत्यानुपूर्व्या अर्थवनिरर्थकपदैकदेशोभयसमुदायरूपया किंस्तु नेति करणनामसूचनम् ॥
कल्याणगुणस्यूतां कान्त्याश्लेषेण सन्ततं स्फीताम् । तनुतां हृद्यां जगतां माताऽलंकरणमालिकामेताम् ॥ १७५३ ॥
जगतां माता श्रीः कल्याणगुणैः सुवर्णतन्तुभिः पक्षे मङ्गलैः श्रियः गुणैः सौशील्यवात्सल्यादिभिः स्यूतां कान्तेः आश्लेषण पक्षे कान्त्या ‘अत्युज्ज्वलत्वं बन्धस्य काव्ये कान्तिरितीप्यते इत्युक्तलक्षणेन श्लेषेण 'मिथस्सश्लिष्टपदता श्लेष इत्यभिधीयते' इत्युक्तलक्षणेन च काव्योत्कर्षहेतुभूतेन गुणेन स्पीतां एतां अलंकरणमालिकां भूषणमालात्वेनाध्यवसितां स्तुति हृद्यां वक्षस्स्था हृदयप्रियां च तनुताम् । अत्र अलंकरणमालिकामिति पदेन अस्या स्तुतेः बवबालवादिकरणमालानामघटितत्वरूपसूच्यार्थसूचनम् ॥ .. अस्याः स्तुतेरयमन्तिमः श्लोकः
एषा महिरेश्वरकृष्णक्ष्मापालरत्न उदिता कुतिर्विजयतां श्रीकृष्णब्रह्मतन्त्रपरकालात् ॥ १७५४ ॥
यथावासंयोगोऽग्रे पादे भवतो वर्णस्य कस्यचिद्वा ALANKARA_III.
27