________________
मुद्रासरः (७६)
207
युल्लसनम् । पट्यनस्य शरणागतिमन्त्रस्य षट्पदानां भ्रमराणां च उल्लसनम् । अन्यत्सुगमम् । अत्र दायतेतु ललितेत्यर्थवनिरर्थकपदैकदेशसमुदायेन तैतुलकरणनामसूचनम् ॥ . शिशिरमयूखावरजं वशितहयग्रीवममृतसागरजम् । भजतां भवभरतापं नयता नः किमपि धाम तल्लोपम् ॥ १७४६ ॥ ___शिशिरमयूखः अवरजः यस्य तत्, भवभरतापं लोपं नयतामित्यन्वयः। अत्र सागरजमित्यनर्थकेन पदैकदेशेन गरजकरणनाम सूचितम् ॥
कश्चित् वणिग्जन इव न्यासधनी मौग्ध्यमम्ब तव वीक्ष्य । त्वयि विक्रीयाणतमं स्वमहो लभते महाविभूतिं त्वत् ॥ १७४७ ॥
न्यासधनी भरन्यासधनवान् न्यासरूपधनवांश्च । न्यासो नाम केनचित् रक्षणायान्यवशे उपनिहितं वस्तु 'पुमानुपनिधिया॑सः' इत्यमरः । न्यस्यत इति न्यासः कर्मणि घश् । मौग्ध्य सौन्दर्य मौढ्यं च अणुतमं अणीयस्स्वरूपं अत्यल्पं च । स्वं आत्मानं धनं च । विक्रीय विनिमितं कृत्वा च महाविभींत श्रीनिवासं महती सम्पदं च लभते। अत्र वणिग्जेत्यनर्थकेन पदैकदेशेन वणिग्जकरणनामसूचनम् ॥
भवनावननिर्निद्रा . सवनाशननाथकृतनुतिकपार्दा । धुवतात्काचिन्मुद्रा भवतापं भव्यदायिनी भद्रा ॥ १७४८॥