________________
यथावा
मुद्रासर : (७६)
205.
नवनलिनाक्षः फणिगिरिदुर्गनिवासे निसर्गत: कुतुकी । कृष्णघन जिष्णुरुचिराकृतिस्स लक्ष्मीपतिश्विरं जीयात् ॥ १७३९ ।।
अत्र पादचतुष्टयाद्यवर्णयुग्मरूपार्थवत्पदैर्मिलितैः'नवदुर्गकृष्णकृति:' इति प्रबन्धकर्तृनानस्सूचनीयस्य सूचनम् ॥
अत्र नक्षत्रमालादिस्तुतिवत्केनाप्य क्षुण्णचरी काsपि श्रहिय ग्रीवदेवदिव्यमहिषीविषया अलंकरणमालिकाख्या बवबालवादिकरणनामसूचनी अस्माभिरेव प्रणीता स्तुतिरुदाह्रियते । तस्या इमे आधे पद्ये
कमलवनावलिभोग्यं कलशपयोराशिराजसौभाग्यम् । किमपि हयाननभाग्यं कलयतुं मां स्वगुणविनुतिकृतियोग्यम् ॥ १७४० ॥
हरणायाखिलविपदां करणान्येकादशापि विनियम्य ! श्लोकैरेकादशभिर्लोकेशिनीं स्तुवे प्रसीदतु सा ।। १७४१ ॥
एकादशसंख्याकानि करणानि इन्द्रियाणि । पक्षे बवबालवेत्यादिचरस्थिरसंज्ञकानि करणानि तान्यप्येकादश संख्याकान्यवे । विनियम्य विषयेभ्यः प्रत्याहृत्य । पद्यानामेकदेशेषु ग्रथित्त्वा च । अत्र करणान्येकादशापि विनियम्येति पदैः श्लिष्टैरर्थवद्भिः वक्ष्यमाणस्तुतिपद्येषु क्रमेण करणनाम्नां सूचनं भविष्यतीति सूचितम् ॥ =