SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ मुद्रासर (७६) 203 यथावा हारसमेतो भोगी राहोः कालो रविप्रवेकेषु । गगनचराणां वारेष्वास्तेऽन्तर एष सन्ततमरिष्टः ॥ हारेण वैजयन्तीरूपेण समेतः भोगी निरतिशयभोगवान् भूमि प्रशंसायामतिशयने वा मत्वर्थीयः । राहोः कालः शत्रुः भगवान् प्रियेषु आदित्यादिषु गगनचराणां दिविषदां ग्रहाणां च वारेषु समूहेषु वासरेषु च । अन्तरः अन्तस्स्थितः ' य एषोऽन्तरादित्ये । य आदित्ये तिष्ठन्नादित्यादन्तरः । सर्वान्तरः' इत्यादिश्रुतेः आस्ते । एषः सर्वान्तर्यामितयाऽवस्थितोऽपि संततं नित्यं रिष्ट अशुभं तन्नास्त्यस्येत्यरिष्टः अपहतपाप्मेत्यर्थः । सर्वान्तर्यामित्वेऽपि तद्गतदषिगन्धासंस्पृष्ट इति भावः । अत्रादित्यादिवासरेषु राहुकाल - हारसमेतोभोगीति कचटादिवर्णज्ञाप्य संख्याक्रमेणा मद्वितीयाद्य यामपरिमाण आस्ते । तद्यथा रविवारे अष्टमोऽर्धयामो राहुः कालः । इन्दुवारे द्वितीयोऽर्धयामस्स इत्यादि द्रष्टव्यम् । स च संततमरिष्टः कार्येष्वशुभद इति ज्योतिश्शास्त्र मर्यादायास्सूच्याया - स्सूचनम् ॥ यथावा नतसमनवनिर्निद्रां नलिनेक्षणहृदयवसतिमक्षुद्राम् । कामपि करुणामुद्रां पथ्यामार्या श्रये भद्राम् ।। १७३६ ॥ अत्र पथ्यामार्यामिति पदाभ्यामर्थवद्भयामस्य पद्यस्यत्रिष्वंशकेषु पादो दलयोराद्येषु दृश्यते यस्याः । पथ्यति नाम तस्याश्छन्दोविद्भिस्समाख्यातम् ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy