________________
202
अलङ्कारमणिहारे
-ग्रन्थान्तरगत पद्यघटनावाचोयुक्तेरयुक्तत्वात् । तादृशलक्ष्यलक्षणयुकच्छन्द्रो ग्रन्थस्याप्रसिद्धेश्च । वस्तुतस्तु प्रकृतार्थस्यैव सूचनं मुद्रालंकार इति परमाग्रहः । प्रकृतस्य वा अप्रकृतस्य वा सूच्यस्यार्थस्य सूचनं मुद्रालंकार इत्येव ग्राह्यम् । 'सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः' इति हि तच्छरीरम् | तथाच कवि संरम्भानुरोधिनतादृशलक्ष्यलक्षणयुक्तप्रबन्धानन्तःपातित्वेऽपि तदतिरिक्तकाव्येषु यत्रयत्र कृत्वा हाटकताटकेयहरिणे शार्दूलविक्रीडितम् । पर्यायेण स्तनकलशयोरङ्गुळीयं मदीयम्' इत्यादौ अप्रकृतवृत्तालंकारादि सूचनेऽप्यक्षत एवायमलंकारः । अन्यथा रामादिचरितं ग्रथयितृणां कविकुलाग्रयातॄणां महता प्रयत्नेन यत्रकवा वृत्तालंकारादि सूचकशब्दप्रयोगवैचित्रयवैयथर्यापत्तेः । अलंकारकौस्तुभकृतो बुकपत्तनवेंकटायस्तु
6
प्रकृतार्थपरैश्शब्दैः कविनाऽप्रकृतं यदि । सूच्यं सूच्येत जगदुस्तदा मुद्रामलंकृतिम् ॥ इत्यप्रकृत सूच्यार्थसूचनमेव मुद्रेत्यमुमलंकारं लक्षयन्तःनीलश्रीरलकेषु शङ्खगरिमा कण्ठे कुचे माकरी रेखा कुन्दवरबुतिस्स्मितसुधाकान्तेषु दन्तेषु च । पादौ कच्छपभूषित करयुगं यस्यास्सपद्मं महापद्मानन्दमयी मुकुन्दरमणी सद्यः प्रसद्यान्मम ॥
इत्युदाहृत्य 'अत्र नीलादि शब्दै निधिनवक सूचनम् इत्यप्रस्तुतं निधिनवकमेवासूसुचन् । न हि लक्ष्मीवर्णनप्रस्तावे निधिनवक सूचनं प्रस्तुतम् । अन्यत्सर्वे प्रपञ्चितं हंससंदेशरसास्वादिन्यां ' पर्यायेण स्तनकलशयो:' इत्यत्रास्माभिः ॥