________________
मुद्रासरः (७६)
नाम्नो नास्ति सूचनीयत्वं, तथाऽप्यस्यात्तरार्धस्य लक्ष्यलक्षणयुक्तच्छन्दश्शास्त्रमध्यपातित्वे तस्य सूचनीयत्वमस्तीति तदभिप्रायेण लक्षणं योज्यम्" इति कुवलयानन्दग्रन्थस्संगच्छेत । अत्र छन्दश्शास्त्रमध्यपातित्वेनेति तृतीयान्ततया केषुचि कोशेष्वर्वाक्तनेषु दृश्यमानः पाठोऽस्वच्छः, भूयस्सु प्राचीनकोशेषु मध्यपातित्वे इति सप्तम्यन्तपाठस्यैव दर्शनात् तथैव तद्वयाख्यायां रसिकरञ्जन्यां व्याख्यातत्वाश्च । तथाच तद्गन्थः - " नन्वत्र तरु णीवृत्तान्तवर्णन प्रस्तावे वृत्तस्यालक्षणीयतया तन्नाम्नस्सुचनीयत्वाभावान्नेह मुद्रालंकार इत्याक्षिपति - यद्यपीति । सत्यं नात्र वृत्तनाम सूचनीयं, तथाऽपि 'यस्यां लस्सप्तमो युग्मे सा युग्मविपुला मता' इति विपुलालक्षणोत्तरार्धे यदि ' नितम्बगुर्वी तरुणी' इत्युत्तरार्धमुदाहरणं भवेत् तदा तत्र वत्तस्य सूचनायत्वमस्तीत्यभिप्रेत्यात्र मुद्रालंकारोदाहरणमिति परिहरति-तथाऽपीति । एतेन छन्दशास्त्रमध्यपातित्वेनेति तृतीयान्तपाठमेव बहुमन्यमानाः 'नितम्बगुर्वी' इत्यायुत्तरार्धस्य लक्ष्यलक्षणयुक्त - च्छन्दश्शास्त्रमध्यपातिन एवात्र लक्ष्यतयोदाहृतत्वात्तादृशस्यैव प्रस्तुतसूच्यार्थसूचिनो मुद्रालंकारत्वं न तु तदन्यकाव्यान्तर्गतस्याप्रस्तुतसूच्यार्थसूचनस्यापीत्यागृह्णानाः केचित्परास्ताः । सति च तृतीयान्ततया पाठे उपदर्शितरीत्या व्याख्यानव्याख्येययोरन्योम्यमुखानवलोकनापतेः ।
99
ALANKARA-III,
201
•
•
येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः । प्रायस्त एव तेषामितरेषामभिनवा विरच्यन्ते ॥ : इति जयदेवप्रणीतचन्द्रालोका दृश्यमानानामलंकाराणां कुवलयानन्दकारेरेव लक्ष्यलक्षणयुक्तश्लोकप्रणयनस्य प्रतिज्ञाततया अत्र
26