________________
200
अलंकारमणिहारे
anvar
रमणीयविच्छेदयुतामित्यर्थः । ‘कृतयतिशोभाम्' इति तल्लक्षणे वक्ष्यमाणत्वात् । इमां सुगीति शोभनां गीति गीत्याख्यामार्यामित्यर्थः । विद्यां जानीयाम् । विदीकुत्तमैकवचनम् । अत्र
लक्ष्मैतत्सप्तगणा गोपेता भवति नेह विषमे जः ।
षष्ठोयं न लघू वा प्रथमेऽर्धे नियतमार्यायाः ॥ इत्युक्तार्याप्रथमार्धलक्षणस्यैव उत्तरार्धऽपि विद्यमानत्वात् ।
अर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां तां गीतिं गोतवान् भुजङ्गेशः ॥ इत्युक्तं गोतिलक्षणं सर्वमपि सुस्पष्टम् ॥
अत्र श्रीलक्ष्मीवर्णनपरेण सुगीतिमिति पदेन अस्य वृत्तस्य गीतिनामतायाः भजमनसा इत्यादिना तद्गणनियमादीनां च सूच्यानामनां सूचनमिति मुद्रालंकारः प्रकृताप्रकृतश्लेषोजीवितः । न चात्र प्रकृताप्रकृतश्लेष एव न मुद्रालंकार इति वाच्यं, श्लेष. सद्भावेऽपि सूच्यार्थसूचनस्यापि स्फुटतया मुद्रालंकारस्य निरर्गलत्वात् । नाप्यस्य मुद्रालंकारस्य श्लेषतो विविक्तविषयदौलभ्यभ्रमः कार्यः, अनुपदमवे विविक्तस्य विषयस्य दर्शयिष्यमाणत्वात् । तस्मादत्र श्लेषमुद्रालकारयोस्संकर एवेति दिक् ॥
यद्यप्यत्रालंकारग्रन्थे वृत्तनाम्नोऽवश्यं नास्ति सूचनीयत्वं तथाऽप्यस्य पद्यस्य एवंविधलक्षणाभिन्नलक्ष्यघटितच्छन्दश्शास्त्रम. ध्यपाठे तस्य सूचनीयत्व संभवतीति लक्षणानुगतिः कार्या । अत एव--
सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः । नित्यम्बगुरू तरुणी हग्युग्मविपुला च सा ॥
अत्र नायिकावर्णनपरेण युग्मविपुलापदने अस्यानुष्टुभो युग्म विपुलानामत्वरूपसूच्यार्थसूचनं मुद्रा । यद्यप्यत्र ग्रन्थ वृत्त