SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ मुद्रासरः (७६) 199 गौतिवृत्तपक्षे तु-यां गोति गोपेताः गसंक्षकेन गुरुणा उपेताः युक्ताः अस्य अन्ते इत्येतदादिः अवसाने गुरुणा उपेता इत्यर्थः । ते च अनियताः क्रमनियमरहिताः यथायथं प्रयुक्ता इत्यर्थः । शेयास्सर्वादिमध्यान्तगुरवोऽत्र चतुष्कलाः । गणाश्चतुर्लघूपेताः पश्चार्यादिषु संस्थिताः ॥ इति सर्वादिमध्यान्तगुरूणां चतुर्लघूपेतानां चतुर्लघुरूपगणान्तरसहितानामनियमेनार्यावृत्तेषु प्रयोगस्यानुशासनात् । अत्र द्विगुरुक एको गणः । आदिमध्यान्तगुरवः भगणजगणसगणास्त्रयः चतुर्लघुक एक इत्येवं पञ्चगणा यथासंभवमार्यादिषु प्रयोज्या इति कारिकार्थः । ते च कतीत्यत्राह -ऋषीति । ऋषिसंख्याका गणाः सप्तगणा इत्यर्थः । गोपेताश्च ते अनियतर्षिगणाश्चेति कर्मधारयः । ते च के इत्यत आह . भजमनसा इति। भकारादिसंज्ञकाः । क्व च ते प्रयोज्या इत्यत आह--पदोरिति । पदोः श्लोकचतुर्थाशयोः पूर्वोत्तरार्धरूपयोर्योः पादयोरित्यर्थः । 'पहन्' इति पादशब्दस्य पदादेशः । भजन्ते श्रयन्ते । अथ चतुष्कलानां गणानामनियमेन यथायथं प्राप्ती नियमयति-भृगुजेति। भृगुजः परशुरामः स च मत्स्यादिभगवदवतारेषु षष्ठतया गणितः । तेन प्रष्ठ इति लभ्यते। भृगुजः षष्ठः गणः जः जसंज्ञकः यस्यास्तां भृगुजगणजां जगणात्मकषष्ठगणामित्यर्थः । अनेन षष्ठेन जगणेन भाव्यभिति नियम उक्तः। अविषमजयां विषमे विषमांशे विषमगणस्थाने जं जगणं यातीति विषमजयाः यातेः किं । सा न भवतीत्यविषमजया तां तथोक्तां प्रथमतृतीबादिविषमांशेषु जगणशून्यामित्यर्थः । अनेन विषमस्थानेषु जगणो न प्रयोज्य इति नियम उक्तः। यतिभिः विच्छेदैः 'विच्छेदो यतिसंशकः' इत्यनुशासनात् । ईड्यां
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy