________________
196
अलङ्कार मणिहारे
निन्दाभिव्यक्तिरूपया निन्दया स्तुत्यभिव्यक्तिरूपया व्याजस्तुत्या च पूर्वोत्तरार्धगतया संकीर्यते ॥
असहनमेव ज्यायस्सहिष्णुतावैभवं धिगस्तु रमे । सुखिनोऽन्ये तव तु सखी सवै सर्वसहे - त्यधः क्रियते ।। १७३१ ।।
अत्रापि दोषगुणयेोगुणदोषत्वेन वर्णनं, अर्थान्तरन्यासपरि ष्कृतत्वं तु विशेषः ॥
यथावा
सर्वगुणानां निधिरिति गर्न मा गाः पयोनिधेस्तनये । यैरेव स्वजनयितुस्स्वच्छतमस्यापि मथनहेतुरभूः ॥ १७३२ ।।
अत्र गुणस्य दोषत्वेन वर्णनं शुद्धम् । न चायमलंकारः व्याजस्तुत्या उभयरूपया गतार्थ इति शङ्कयं, मुखप्रतिपादितार्थवैपरीत्येनात्र सर्वत्र पर्यवसानविरहात् । न हि 'सर्वगुणानां निधिः ' इत्यस्मिन् पद्ये दारिद्र्यात् खिन्नस्य कस्यचिलक्ष्मी गुणोपालम्भरूपे श्रियस्स्तुतौ तस्य तात्पर्यम् । अपितु स्वजनकमथनहेतुत्वेन निन्दायामेव । एवं 'असहनमेव ज्यायः' इति लोके भूमी तरेषां निन्दा न विवक्षिता किंतु सुखावस्थानं, सर्वेस हा खेददर्शनदुःखितस्य वाक्येऽस्मिन् तदन्येषां निन्दाया अवक्तव्यत्वात् । प्रत्युत स्तुतेरेव वक्तुमुचितत्वात् । 'भूयस्तु समुल्लालिषु' इति लोके - व्याजस्तुतिरस्तिचेदस्तु नाम, तस्यास्सावकाशत्वेन एतद्बाधनायोगात् ॥