________________
मुद्रासरः (७६)
197
प्रियतम एव भवत्यास्त्रिभुवनभिक्षौ स्थिते कु चेलसखे । सर्वजगहुर्विधतानिर्वापणतोऽम्ब गर्विताऽसि कथम् ॥ १७३३ ॥ ___ अत्र पर्यन्ते प्रतीयमानस्य भगवदतिरिक्तसकलजगद्दारिद्रयनिर्व पणरूपस्य गुणस्य दोषत्वेनावर्णनात् दोषत्वेन वर्ण्यमानस्य भगवतस्त्रैलोक्यभिक्षुत्वकुचेलसखत्वानिराकरणदोषस्य गुणत्वेनाकल्पनाद्गुणदोषयोभिन्नविषयतयाऽवस्थानेन लेशस्पर्शलेशरहिता व्याजस्तातरिति व्यक्तमेव सावकाशत्वम् । अतएव लेशोऽपि न व्याजस्तुतेर्बाधक इति प्रागुदाहृते भूयस्सु समुल्लासिषु' इति पद्ये द्वयोरपि समावेश इत्यवधातव्यम् ॥
इत्यलंकारमणिहारे लेशसरः पञ्चसप्ततितमः.
अथ मुद्रालंकारसरः (७६)
प्रकृतार्थपरैश्शब्दैर्मुद्रा सूच्यार्थसूचनम् ।
विवक्षितार्थप्रतिपादनपरैश्शब्देस्सूचनीयस्यार्थस्य सूचनं मुद्रालंकारः । अयमपि दीक्षिनोपनमेव । प्रकृतार्थपरेण पदेन तदेकदेशेन वा पदसमुदायेन पदैकदेशसमुदायेन वा तदुभयसमुदायेन वा याथाकथंचित् शापनीयार्थविशेषस्य ज्ञापनं मुद्रेति निर्गळितोऽर्थः । पदैकदेशस्तु प्रकृते अर्थवान्वा निरर्थकोवाऽस्तु । सूच्यार्थश्च प्रकृतोऽप्रकृतोवाऽस्तु । न तत्राभिनिवेष्टव्यम् ॥