________________
194
अलंकार मणिहारे
कदावा दैवसंपदभिजातत्वादिगुणसंभव संभावनयेति ध्येयम् । इयमप्यलंकृतिर्दाक्षितोपशमेव ॥
इत्यलंकारमणिहारे
अनुज्ञालंकारसरस्त्रिसप्ततितमः .
अथ तिरस्कारसरः (७४)
गुणस्य दोपसंबन्धाद्देषश्चेत्सा तिरस्कृतिः ||
दोषविशेषानुबन्धाद्गुणत्वेन प्रसिद्धस्यापि द्वेषश्चेत् स तिरस्कारो नामालंकारः ॥
यथावा-
मधुसूदन मम जात्वपि माहेन्द्रयस्संपदोऽपि मा भूवन् । यासु निमग्नो नछेति यदृच्छया वाऽपि
तावकस्मरणम् ॥। १७२९ ॥
अत्र भगवद्विस्मरणदोषसंबन्धान्माहेन्द्रसंपत्सु गुणत्वेन षसिद्धास्वपि द्वेषः । अयमलंकारः पण्डितराजोपज्ञम् । स हि - "दोषविशेषानुबन्धादित्याद्युक्तरीत्या अमुं लक्षयित्वा अमुं च तिरस्कारमलक्षयित्वा अनुज्ञां लक्षयतः कुवलयानन्दकृतो विस्म रणमेव शरणं, अन्यथा
भजे भवदन्तिकं प्रकृतिमेत्य पैशाचिकों किमित्यमरसंपद प्रमथनाथ नाथामहे ।