________________
अनुज्ञासरः (७३)
193
हे कंसारे ! त्वं नः संसारमेव अनादिकालादनुभूतमेवेति भावः। दित्ससि यादे इतःपरमपि दातुमिच्छसिचेत् तथैव भूयात् । अनतिलङ्घनीयं हि नियन्तुश्शासनं नियन्तव्यवर्गेणेति भावः । तदाऽपि न किंचिदनिष्टामेत्याह-अपि जात्विति । स एव संसार एव देवसंपदा
"द्वौ भूतस! लोकेऽस्मिन् दैव आसुर एव च । विष्णुभक्तिपरो देवो विपरीतस्तथाऽऽसुरः॥
इत्युक्तप्रकारा दैवी संपत् । या हि 'अभयं सत्त्वसंशुद्धिः' इत्यादिना 'देवो संपद्विमोक्षाय' इत्यगीयत । तया अवियुक्तः संयुक्तः अपि जातु सारस्स्यात् जातुसारस्स्यादपीति वा योजना । अपिस्संभावनायाम् ॥
कर्मभिभ्राम्यमाणानां यत्रकापीश्वरेच्छया ।
मङ्गलाचरितैदानैर्मतिर्नः कृष्ण ईश्वरे ॥ इत्याद्युक्तरीत्या यदाकदावा यत्रक्कवा तादृशयादृच्छिकादिसुकृतपरिणतिवशात्त्वयि भक्तिरुदियादेवेति तस्यापि सारत्वं संभवेदेवेति भावः । स ह्यपवर्गतुल्यकक्ष्यतयोच्यते
त्वं चेत्प्रसीदसि तवास्मि समीपतश्चेत् त्वय्यस्ति भक्तिरनघा करिशैलनाथ । संस्ज्यते यदि च दासजनस्त्वदीयः संसार एष भगवन्नपवर्ग एव ॥ इति । पक्षे हे देवेति संबोधनम् । स एव संसारशब्द एव सं. पदवियुक्तः सं इत्याकारकपदेन विघटितः सारशब्द एव स्यादित्यर्थोऽपि चमत्कृतेरुपस्कुरुते । अत्र दोषरूपसंसाराभ्यर्थनं तत्र यदा
ALANKAR.I-III.