SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 192 अलकारमणिहरे अत्र चैद्यादेरिव वक्तुः भगवद्विषयकवैररूपदोषाभ्यर्थनमविच्छिन्नतत्स्मृतिसंतानकारणत्वलक्षणगुणलालसयेति ध्येयम् ॥ अत्र 'द्वेषाच्चैद्यादयो नृपाः' इत्येतदनुसंधेयम् ॥ यथावा यत्र कवा निहाका तावकतीर्थे भवत्वसावात्मा। तावकयोगादच्युत का हानिस्स्यात्ततः प्रसव्यगतेः ॥ १७२७ ॥ ___ हे अच्युत ! असावात्मा अयं चेतनः यत्रक्ववा तावके तीर्थे स्वामिपुष्करिण्यादौ निहाका गोधिकाख्यो जलजन्तुविशेषः 'निहाका गेोधिका समे' इत्यमरः भवतु । ततः निहाकात्वप्राप्तावपि तावकयोगेन त्वदीयध्यानेन त्वदीयानां त्वदीयेन वा संबन्धेन वा तन्महिनेति यावत् । प्रसव्यगतेः अनुकूलसद्गतेः । 'प्रसव्यं वाच्यलिङ्गं स्यात् प्रतिकूलानुक्लयोः' इति मेदिनी। आत्मन इति शेषः । का हानिस्स्यात् न काऽपि हानिः किंतु श्रेय एव भवेदिति भावः । त्वत्संबन्धप्रभाव ईदृश इति तात्पर्यम् । पक्ष निहाकाशब्दः तावकेन योगेन उपायेन युक्त्या वा प्रसव्या प्रतिकूला गतिः स्थितिः तस्या इति पञ्चमी । युक्त्या उपायेन वा प्रातिलोम्येन पठनादिति यावत् । काहानि काहानीत्यानुपूर्वीमत् स्यात् । अस्मिन् पक्षे स्यादित्यत्र 'अनचि च' इति द्वित्वम । अत्राप्यनुज्ञालंकारः पूर्ववदेव ॥ यथावा संसारमेव दित्ससि कंसारे यदि तथै नः। अपि जातु स एव स्यात्सारो ननु देवसंपदवियुक्तः ॥ १७२८ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy