________________
अथानुज्ञासरः (७३)
अनुज्ञा सा गुणौत्सुक्याद्दोषस्याप्यर्थना यदि ।
उत्कटगुणविशेषलालसया दोषत्वेन प्रख्यातस्यापि वस्तुनः प्रार्थनमनुज्ञालंकारः ॥
यथावा
भवहर फणिशिखरीश्वर भवतात्तव विप्रकर्ष एव मम । स ह्यादरस्य कारणमनादरस्यैव सन्निकर्षस्तु ।। १७२४ ॥
अत्र श्री वेंकटगिरिनाथविप्रकर्षो दोषः । तदभ्युपगमे हेतुरादरणकारणत्वं गुण । स च सामान्येन विशेषसमर्थनरूपेणार्थान्तरन्यासेन दर्शितः ॥
यथावा
तावकशैलेऽच्युतमे स्थावरता जङ्गमत्वमपि वाऽस्तु । किं मुक्तिदोऽसि न पुरा कोसलजनपदचराचराणां त्वम् ॥ १७२५ ॥
अत्र तरुलतादिरूपस्थावरत्वेन वा भुजगविहगमृगादितिर्यजन्तुतया वा जन्मनः प्रार्थनं दोषः । तदाशासने तादृशरूपेण वेंकटाद्र्यवस्थानस्यापि मुक्तिहेतुत्वं गुणः । स च कोसलजनपदचराचरनिश्श्रेयसवितरणोदाहरणेन दर्शितः ॥
यथावा
मा भूत्त्वय्यनुरागो मम चैद्यादेरिवास्तु वैरं वा । येन त्वय्यच्छिन्ना स्मृतिसन्ततिरच्युतावतिष्ठेत ॥