SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 190 अलंकारमणिहारे दमास्ताम् । तं त्वं नाद्रियसे चेच्छातं तस्यापि किमपि बत न भवेत् ॥ १७२३ ॥ किं छातं किं छिन्नं 'छो छेदने' क्तः । ‘आदेचः' इत्यात्वम् । 'छिन्न छातं लूनम् ' इत्यमरः । तं निन्दितारं मूर्ख त्वं नाद्रियसे चेत् तस्यापि न किमपि छातं छिन्नमित्याश्चर्यम् । परिहारस्तु चेत् शातं इति उत्तरार्धे छेदः। किमपि शातं सुखं न भवतीति । 'शर्मशातसुखानि च' इत्यमरः 'शो तनूकरणे' देवादिकादस्माद्वाहुलकानन् । 'आदेचः' इत्यात्वम् । श्यत्यशुभमिति विग्रहः । अत्र मूर्खकृतानन्दनप्रयुक्तस्य भगवन्नयनतारूपदोषस्थानाधानम् । भगवत्कर्तृकानादरदोषप्रयोज्यमूर्खदोषानाधानामिति भवत्यवशालंकारद्वयम् । अत्राद्य शुद्धं, द्वितीयं तु श्लेषोजीवितमिति विवेकः ॥ अत्र केचित् अवशोदाहरणेषु 'स्वल्वाम्बु लभते प्रस्थः प्राप्यापि सागरम् , मोलन्ति यदि पद्मानि का हानिरमृतद्युतः' इत्यादिषु नावज्ञाख्यमलंकारान्तरमभ्युपेयं, तत्रान्यगुणदोषयोरन्यगुणदोषजननसमर्थयोस्सतोरपि तदजननवर्णनेन विशेषोक्तेरेव युक्तत्वाद्वक्तुम् । सागरसलिलसमृद्धिसत्त्वेऽपि प्रस्थे तत्लमृद्धयभावस्य पद्मसंकोचेऽपि चन्द्रगतदोषामवस्य च वर्णनेन तल्लक्षणस्याविकलत्यादिति वदन्ति । वस्तुतस्तु नात्र विशेषोक्तिस्सुवचा। ‘हादस्नेहायो नाभूत् स्मरदीप ज्वलत्यपि' इत्यादितदु दाहरणेषु दीपज्वालास्नेहक्षययोरिवार सागरसलिलसन्निधानप्र स्थगमनाम्बुसमृद्ध्यभावयोः कार्यकारणभास्य लोकासद्धस्याभावेनोक्तविशेषोक्तिलक्षणविरहादित्याहुः ॥ इत्यलंकारमणिहारे अवज्ञासरो द्विसप्ततितमः.
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy