________________
अथावज्ञालंकारसरः (७२)
न स्यातां यदि ते ताभ्यां साऽवज्ञालंकृतिर्भवेत् ॥
ताभ्यां अन्यगुणदोषाभ्यां ते अन्यगुणदोषाधाने कस्यचिद्गुणेन कस्यचिद्गुणाधानं दोषेण दोषाधानं वा न स्यातां चेत् अवशालंकारः ॥
यथावा
करुणाजलविरिति त्वां श्रितोऽस्मि करुणालवोऽपि मयि न कृतः। पापी गच्छतु जलधिं पादतलं वाऽप्यमुष्य नाट्टै स्यात् ॥ १७१६ ॥
अत्र भगवन्निष्ठाश्रितवत्सलत्वजलधिनिष्ठजलपौष्कल्यरूपगुणाभ्यां शरणागतप.पिनोः कृपापादतलार्द्रतयोर्गुणयोरनाधानम् ॥ अत्र महावाक्यार्थो दृष्टान्तरूपः बिम्बप्रतिबिम्बवाक्यार्थाभ्यां अवशारूपाभ्यां संकीणः ॥
यथावा
अमृतमये निवसन्नपि सुमनोनिवहे जनो भवद्विमुखः । विशदत्वं नैति हरे शशधरबिम्बे चिरं कलङ्क इव ॥ १७१७ ॥
अत्र विद्वन्निवहशशधरबिम्बयोरमृतमयत्वलक्षण गुणेन भगवद्विमुखकलङ्कयोर्विशदत्वरूपगुणस्यानाधानं श्लेषकृतसमानधर्मवदुपमासंकोर्णोऽयमित पूर्वस्माद्विशेषः ।।