SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ अवज्ञासरः (७२) 187 यथावा गच्छतु गयां वितनुतां विलोमतन्नामवाच्यमपि यदिवा । विन्देदरविन्देक्षण कथं तव पदं त्वया विवदमानः ॥ १७१८॥ यथावा विलोमतन्नामवाच्यं प्रतिलोमगयाशब्दवाच्यं यागमित्यर्थः । गयागन्ता वा यष्टा वा भवतु। स पुमान् हे अरविन्देक्षण ! त्वया विवदमानः त्वं मेऽहं मे' इत्युक्तरीत्या विवादकः कथं तव पदं विन्देत। यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः । तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥ इति तत्पदभरार्पणरूपाविवादवत एव निश्श्रेयसप्राप्तयभिधानादिति भावः । अत्र वक्तव्यांशस्सर्वोऽपि समासोक्तिप्रकरणे सप्रपञ्चं न्यरूप्यत । अत्र गयायागयोः पवित्रतादिगुणेन भगवत्पदलाभगुणानाधानम् ॥ दोषेण दोषानाधानं यथा का तव हानिभर्गवन् कश्चिदभाग्यः पराङ्मुखस्त्वयि चेत् । नलिनसहदो भवेतिक नयनरुजा चेनिमीलितः कश्चित् ॥ १७१९ ॥ नयनरुजेत्युपलक्षणतृतीया । अत्र भाग्यहीननयनरोगिणोः पराअखत्वनिमीलितत्वाभ्यां दोषाभ्यां भगवन्नलिनसुहृदोर्हानि. रूपदोषानाधानम् । इयमपि दृष्टान्तसंकीर्णा आद्योदाहरणवत् ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy