________________
उल्लाससरः (७१)
185
यथावा
वानरनिशिचरराजौ तयोरवरजौ च तव रविकुलेन्दो । कोपकृपाभ्यां नृपतेराज्यादरमेत्य हन्त निर्ववतुः ॥ १७५५ ॥
हे रघुकुलेन्दो! वानरनिशिचरराजौ वालिदशाननौ नृपतेस्तव कोपात् आज्याः युद्धात् ‘समित्याजिसमियुधः' इत्यमरः । दरं भयं एत्य निर्ववतुः निर्वाणं प्राप्तौ अस्तं गतावित्यर्थः। तदद्वरजौ सुग्रीवविभीषणौ, नृपते इति संबुद्धचन्तं पदं हे रधुकुलेन्दो इत्यस्य विशेषणम् । राज्यादरं राज्ये आदरं एत्य कुलकमागतराज्यलाभात्तत्रातिमात्रादरं प्राप्यति भावः । निर्ववतुः निर्वाणं सुखं प्राप्तावित्यर्थः । निःपूर्वकाद्वातेरुपपादितोभयार्थकताया दर्शनात् । तथाच मेदिनी 'निर्वाणमस्तंगमने निर्वृतौ गजमजने । सङ्गमेऽप्यपवर्गे च' इति । अत्र श्रीरघुनन्दनगताभ्यां कोपकृपाभ्यां दोषगुणाभ्यां वालिदशाननयोस्सुग्रीवविभीषणयोश्च आज्यादरस्य राज्यादरस्य च प्राप्तिपूर्वकं विनाशसुखलक्षणदोषगुणयोराधानमित्युभयं यथासंख्यश्लेषतुल्ययोगितासंकीर्णमिति पूर्वेभ्यो वैलक्षण्यम्॥ __अत्र प्रथमचतुर्थयोरुल्लासोऽन्वर्थः । मध्ययोश्छत्रिन्योयन लाक्षणिकः । काव्यलिङ्गेन चरितार्थोऽयं नालंकारान्तरभूमिमाढौकत इत्येके। लौकिकार्थमयत्वादनलंकार एवेत्यपरे॥ .
इत्यलंकारमणिहारे उल्लाससर एकसप्ततितमः.
ALANKARA-III