SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 182 अलंकारमणिहारे भावः ‘आयुः क्षिणोत्युपचिनोति च सर्वदोषान्द्रेषो मुकुन्दविषयो विषयोगतुल्यः' इत्युक्तेः । भगवदुपगतः पूर्णायुर्वर्धते तद. पगतस्तु ऊर्णायुरिव वध्यत इति संपिण्डितोऽर्थः । पक्षे पूर्णायुश्शब्दोऽपि पस्य पकारस्य गतिः प्राप्तिः न पगतिः अपगतिः तस्यां पकारराहित्ये इत्यर्थः । ऊर्णायुस्सन्वध्यते बस्योरभेदात् बध्यते पदसमुदाये ग्रथ्यत इत्यर्थः । इवशब्दो वाक्यालंकारे । अत्र भगवतस्सकलफलप्रदत्वादिगुगेन तत्प्रपन्नस्य पूर्णायुष्टगुणाधानं तदपगत्या तदन्यस्य ऊर्णायुवद्वध्यत्वरूषदोषाधानं च निव. द्धम् । उपमासंकीर्णत्वं विशेषः ॥ यथावा तव पदि लग्ना जनता पूर्णा लक्ष्येत सर्वथाऽपि हरे । पूर्णाऽपि पञ्चयुता चेदर्णालक्ष्या भवेन्न सन्देहः ॥ १७१२ ॥ हे हरे! तव पदि लग्ना त्वञ्चरणे सक्ता जनता सर्वधा सर्वप्रकारेणापि पूर्णा सती लक्ष्यते जनैरिति शेषः । तव पच्चयुता पदः चरणात् च्युता जनता स्वतः पूर्णाऽपि ऊर्णालक्ष्या ऊर्णेव मेषादिलोमेव अलक्ष्या अनादरणीया भवेत् । यद्वा ऊर्णा तत्प्राया लक्ष्या दृश्या भवेत् । 'ऊर्णा मेषादिलोम्नि स्यात्' इत्यमरः । पक्षे पूर्णाऽपि पूर्णेति शब्दव्याक्तिरपि पच्चयुता पकारेण च्युता। पः पकारः च्युता यस्या इति वा' पकारविधुरा सती ऊर्णा ऊर्णेत्यानुपूर्वीमती लक्ष्या दृश्या भवति। अत्र भगवतो माहात्म्यगुणेन तत्पदलग्नाया जनतायाः पूर्णायुष्टलक्षणगुणाधानम् । तादृशमाहमवत्त्वं भगवतो गुणः । तेन तत्पादच्युतिहेतुकोलक्ष्यत्वरूपो दोष इत्युभयं पूर्वेभ्यो विच्छित्तिशालि ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy