________________
उल्लाससरः (७१)
181
अकर्मवश्यः मुक्तयैश्वर्यभाक् भवेदित्यर्थः । किंच आदौ प्रथम द्यवीश्वरोऽपि इन्द्रोभवन्नपि अद्य अधुना त्वया उपेक्षितश्चेत् वीश्वरः अनाथ एव स्यात् । त्वदीक्षणान्वयव्यतिरेकावेव ऐश्वर्यदारिद्रयप्रयोजकाविति भावः । स्यादित्यत्र सकारस्य 'अनचि च' इति वैकल्पिक द्वित्वम् । पक्षे वीश्वरशब्दः आदौ प्रथमवर्णात्पूर्व सद्यः द्यवर्णसहितश्चेत् द्यवीश्वर हाते निष्पद्यते । न केवलमेतावदेव । आदौ द्यवीश्वरः द्यत्रीश्वरशब्दस्सन्नपि अद्यः द्यवर्णरहितः वीश्वर इति भवतीत्यर्थोऽपि चमत्कारी। अत्र लक्ष्मीकटाक्षस्य सानुग्र. हत्वरूपगुणेन तदीक्षितस्य स्वाराजथैश्वर्यलक्षणगुणः । तदुपेक्षणलक्षणदोषप्रयुक्तः इन्द्रस्यापि अनाथत्वरूपदोषश्चेत्युभयम् ॥
यथावा -
व्यासविभीषणबलिवत्त्वदुपगतौ ‘नाथ वर्धते पूर्णायुः । पूर्णायुरप्यपगतावूर्णायुरिवेह वध्यते बत मनुजः ॥ १७११ ॥ ___ नाथ्यते आयुरारोग्यादिसर्वपुरुषार्थान् जनैरिति नाथः, तस्य संबुद्धिः हे नाथ! त्वदुपगतो त्वच्छरणागतौ सत्यां व्यासवि. भीषणबलिवत् पूर्णायुस्सन् वर्धते ।
अश्वत्थामा बलियासो हनुमांश्च विभीषणः ।
कृपः परशुरामश्च सप्तैते चिरजीविनः । इत्युक्तं षा चिरजीवित्वं भगवत्प्रपदनमहिनैवेति भावः । पूर्णायुरपि निमित्तान्तरेण पूर्णायुरपि अपगतौ त्वत्तो वैमुख्घे सति ऊर्णायुः मेष इव वध्यते हन्यते। दुर्गादिबलिप्रदौसार्थिभिविभिर्वा जनैरिति शेषः । त्वद्वैमुख्यं ब्रह्मणोऽप्यायुर्भङ्गहेतुरिति