________________
उल्लाससर: (७१)
183
यथावाघनसारस्स्मितदास्यात्तवाघवान्प्राङ्नसार एवाम्ब । कथमप्यनोऽथ सारो रसानधश्वास सकलविपरीतः ॥ १७१३॥
हे अम्ब ! घनसार कर्पूरः तव स्मितदास्यात् प्राक् मन्दहसितदास्यलाभात्पूर्व अघवान् दास्यालाभप्रयुक्तदुःखवान् ‘अंहोदुःखव्यसनेष्वघम्' इत्यमरः । अतएव नसार एव । असार एव नशब्देन नअर्थ केन समासः । कथमपि अतिप्रयासेन अनितीत्यनः 'अन प्राणने' पचाद्यच् । जीवन्नित्यर्थः। अथ स्मितदास्यलाभानन्तरं सफलविपरीतः पूर्वोक्ताघवत्त्वादिसर्वगुणविपर्यासं गतस्सन् रसानघः रसायां भुवि अनघः रसेन अनघश्च सन् सारः श्रेष्ठः बलवान्वा आस दिदीपे। अस्यतेः देवादिकाहीप्तयर्थकाल्लिट् । अघवत्वनसारत्वयोर्वेपरीत्येन सारो रसानघश्चेति सारस्वरसानघत्वयोः प्रतिद्वंद्विनोनिर्देशः । पक्षे घनसारशब्दः प्राक् प्रथम घवान्न भवतीत्यघवान् घवर्णविधुरस्सन् नसार एव नसार हीत संपद्यमानः अथ अनः नवर्णरहितः सार इति निष्पन्नः । एवं वर्णवैकल्यहेतुकं शब्दस्वरूपमुक्तम् । अथ सर्ववर्णसाकल्येन वैपरीत्ये शब्दस्वरूपमाह- अथेति । अथ सकलविपरीतः वर्णवैकल्याभावेन विलोमपठितसर्ववर्णः रसानघ इति निष्पद्यत इत्यर्थः । अत्र श्रीस्मितगतधावळयतापहारित्वादिगुणेन घनसारस्य तदलाभमूलकाघवत्वरूपदोषः । तदास्यलाभप्रयोज्यसारत्वादिगुणश्चेत्युभयं पूर्वोदाहरणेभ्यो वैलक्षण्येन निबद्धम् । शब्दार्थतादात्मादिचमत्कृतिस्तु व्यक्तैव ॥