________________
उक्लाससर: (७१)
173
भावः भूत्वा ; पक्षे अन्ते स्वचरमभागे प्रतीपा प्रतिलोमा वर्ण. गतिः वर्णयोः ककारतकारयोः स्थितिः यस्य तत्तथोक्तं भूत्वाऽपि । मरकतमिति पदं मरतकं भूत्वाऽपात्यर्थः । हरौ भगवति रुच्या निरतिशयप्रीत्या ‘यमेवैष वृणुते' इत्युक्तरीत्या भगवत्कृतस्वविषयकप्रीत्या वा। पक्षे भगवत्तुल्यरुचा उपलक्षितमिति शेषः । स्वार्थतः स्वाभोप्सितनिश्श्रेयसरूपनिरतिशयपुरुषार्थात् न विभ्रष्टं. न प्रच्युतं । किंतु साधितवदेवति भावः । पक्षे स्वाभिधेयाद्गारुत्मतमणिलक्षणात् न विभ्रष्टं मरकतपदस्य यादृशार्थप्रत्यायकता मरतकमित्यस्यापि पदस्य तादृशार्थप्रत्यायकताया एव प्रसिद्धत्वान्न स्वार्थविभ्रंश इति भावः । अत्रापि पूर्वोदाहरणवदेव सर्वमनुसन्धेयम् ॥
यथावा
आदिमवर्णत्रितयत्यक्तोऽपि त्वद्रुचेर्बलाढ्यतया। वर्णान्तरगोऽपि जहौ न स्वार्थं वारिवाहको भगवन् ॥ १६९७ ॥
हे भगवन् ! वारिवाहकः अम्बुवाहः वारिवाहकशब्दश्च आदौ भवं आदिमं यत् वर्णत्रितयं ब्राह्मणादिवर्णत्रयं । पक्षे वारिवा इति वर्णत्रयं तेन त्यक्तोऽपि ; त्वद्रुचे त्वयि प्रीतिसद्भावाद्धेतोः त्वदनुग्रहसद्भावाद्वा। बलाढ्यतया विवेकादिसाधनसप्तकान्तर्गतानवसादलक्षणमनोबलवत्त्वेन ईदृशबलासद्भावे विवक्षितपुरुषार्थलाभायोगात् । यच्छूयते 'नायमात्मा बलहीनेन लभ्यः' इतीति भावः । पक्षे। त्वद्रुचेः त्वत्तुल्यद्युतिसद्भावादित्यर्थः । यद्वा । त्वदभिप्रा. यानुरोधादित्यर्थः । बलाढ्यतया बला इति वर्णद्वययुक्ततया त्वदिच्छानुसारात्' 'न गिरा गिरा, इति न्यायात् वारिवा