SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 172 अलंकारमणिहारे इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ इत्युक्तरीत्या भगवत्साम्यं प्राप्य प्रकाशत इत्यर्थः ॥ पक्षे हरितत्वं हरिद्वर्णत्वं विन्दतीति हरितत्ववित् । विन्दतेः क्विप। तद्भूना तत्साधम्र्येण भाति । मरतकमणेर्हरितवर्णत्वेने भगवत्सावात्तथोक्तिः । नीलहरिद्वर्णयोरभेदः कविसमयसिद्धः, अत्र मकाररफादिवर्णवत्त्वं मरतकशब्दगतं हरितत्त्वभाक्त्वं तदर्थगतमपि शब्दार्थतादात्म्यसाम्राज्यादभेदेनाध्यवसितमिति रहस्यम् । भगवन्निष्ठमहिमगुणेन तत्तत्त्वविदि मरतके तत्साधर्म्यगुणाधानम् । हरितत्त्ववित्त्वादिशब्दकोडीकृतार्थद्वयाभेदाध्यवसायनियूंढप्रतिबन्धकसद्भावेशप कार्योत्पत्तिलक्षणविभावनाविशेषेण पूर्वोक्तरीत्या पर्यायालंकारविशेषेण चोपस्कृतमित्यवधेयम् ॥ यथावा अचलामरस्थितिः प्राग्येनाप्ताऽन्ते प्रतीपवर्णगति । भूत्वाऽपि मरकतं तद्वरिरुच्या स्वार्थतो न विभ्रष्टम् ॥ १६९६ ।। येन मरकतेन गारुत्मतमणिना मरकतपदेन च प्राक् आदौ अचलामरस्थितिः अचलामरो भूदेवः तस्य स्थितिः मर्यादा आप्ता ब्राह्मण्यं लब्धमित्यर्थः । पक्षे अचला निश्चला मरस्थितिः मकाररेफयोरवस्थानं आप्ता 'स्थितिस्त्रियामवस्थाने मर्यादायो च सीमनि, इति मेदिनी। तत् मरकतं तत्पदं च । अन्ते अवसानसमये प्रतीपवर्णः ब्राह्मणप्रतिकूलवर्णः शूद्रवर्ण इति यावत् । गतिः संबन्धो यस्य तत्तथोक्तं । अजामिलादिवद्वषलसंसर्गदूषितमिति
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy