SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ उल्लाससरः (७१) 171 पक्षे स्वां इन्प्रकृति इति छेदः । स्वां स्वकीयां इन्प्रकृति मत्वर्थीयेन इन्प्रत्ययेन युक्तां प्रकृतिपक्षीति प्रकृति अजहदेव । इन्प्रत्ययान्तप्रकृतिकत्वात्तस्योत भावः । पक्षी पक्षीतिशब्दः सद्मान्तस्थानभाक् यतः इति छेदः । यतः यस्मात्कारणात् मावर्णेन सह वर्तत इति समं अन्तस्स्थानं मध्यभागः तद्भजतीति तथोक्तः। ततः तस्मात्कारणात् पद्माक्षी भविष्यति । पद्माक्षीति निष्पत्स्यते । अत्र वक्तव्यं किं वक्तव्यप्रकिया सर्वाऽयुक्तैव नान्यत्किंचिदवशिष्यत इति भावः । अत्र भगवन्मन्दिरमहिमगुणेन तन्निवासेन पक्षिणोऽपि भगवत्सारूप्यगुणाधानम् । अन्यत्सर्व पूर्ववदेवे ॥ यथावा आद्यमरत्वं गतमप्यथ चातितरान्तकत्वमाप्तमपि । हरितत्ववित्त्वभना तत्साधम्र्येण मरतकं भाति ॥ १६९५ ॥ मरतकं गारुत्मतं मरतकपदं च, तयोस्तादात्म्यम् । आद्यमरत्वं पूर्वदेवत्वं दैत्यत्वमित्यर्थः । गतमपि कर्मवशात्रादिवदिति भावः। अथ च अनन्तरं च अतितरान्तकत्वं अतिवेलजगन्नाशकत्वं दैत्यत्वानुगुणमिति भावः । आप्तमपि। पक्षे आद्यौ प्राथमिको मरौ मवर्णरेफौ यस्य तत् आद्यमरं तस्य भावः तत्त्वं गतं अथ च मरवर्णानन्तरं च अतितरां अतिवेलं तकौ तकारककारौ यस्य तत् अतितरांतकं तस्य भाव आप्तमित्यर्थः । मरतकशब्दस्यैवं वर्णचतुष्टयात्मकत्वादित्यभिप्रायः। हरेः भगवतः तत्वं याथात्म्यं वेत्तीति वा हरिरूपं परं तत्वं वेत्तीति वा हरितत्ववित् तस्य भावः हरितत्त्ववित्त्वं तस्य भूम्ना तत्साधयेण भा.ते।
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy