________________
170
अलंकार मणिहारे
च' इत्यायुक्त निषिद्धाचारवान् भवन्नपि यःकश्चित् भवता क्रमेण याच्छिकादिसुकृतपरिपाकक्रमेण तद्वशादिति यावत् । दृष्टश्चेत् वैश्वानरः अग्निः तद्वच्छुचिस्तेजस्वी च भवति, पक्षे आदौ वैश्वा इति वर्णाभ्यामनुगतः अग्रयो नरौ नकाररेफौ यस्य स तथोक्तः । यः कश्चिच्छन्दः क्रमेण उक्तवर्णानुपूर्येण दृष्टश्चेत् वैश्वानर एव भति नान्यशब्द इत्यर्थः । अत्रापि भगवन्महिमातिशयगुणेन तष्टिवशादशुचेरपि शुचित्वगुणाधानम् । एकस्मिन्नाधारे अशुचित्वशुचित्वरूपाने काधेयवर्णनात्मकपर्यायेण संभावनेन च संकीर्णत्वं विशेषः ॥
यथावा
अजहत्स्वामिन् प्रकृतिं सद्मान्तरस्थानभाग्यतो भवतः । अपि पक्षी पद्माक्षीभविष्यति ततः किमत्र वक्तव्यम् ॥। १६९४ ।।
हे स्वामिन्! प्रकृति स्वस्वभावं अजहदेव स्वप्रकृत्यनुगुणं चेष्टमान एव न तूपासनादि कुर्वन्निति भावः । भगवतः सद्मनः दिव्यालयस्य अन्तः स्थानं स्थितिः तद्रूपं यत् भाग्यं भागधेयं तस्मात् सद्मान्तस्स्थानभाग्यतः सार्वविभक्तिकस्तसिः । पक्ष्यपि विहगोऽपि तिर्यग्जन्तुरपीति भावः । पद्माक्षो भगवान् अपद्माक्षः पद्माक्षस्संपत्स्यते पद्माक्षीभविष्यति । चित्रः । उपायाभिमुख्यगन्धस्यापि दवीयान् पक्षिमात्रोऽपि भवद्दिव्यालयवास भाग्यवशात् 'ब्रह्म वेद ब्रह्मैव भवति' इत्युक्तरीत्या ब्रह्मविदिव भगवत्सारूप्ययोग्यो भविष्यतीति भावः । ततः तदपेक्षया वक्तव्यं किमस्ति कथनीयं तन्माहात्म्यं ततोऽपि नान्यदवशिष्यत इति भावः ॥