________________
उल्लाससरः (७१)
.
161
'गुणवचनब्राह्मणादिभ्यश्च' इति भावे प्यञ् । अत्र भगवत्प्रसादप्रभावगुणेन तद्भक्तस्य सारहितत्वादिगुणाधानम् । भगवत्कटाक्षप्रभावाद्बहुप्रसादत्वाद्याधानं वा ॥
यथावा
दुर्गतिवशात्पुमान्यो बहुप्रमादोऽपि तव दृशां विषयः । मानिततां प्राप्य भवेबहुप्रदस्त खलु कलशजलधिसुते ॥ १६९२ ॥
हे कलशजलधिसुते! दुर्गतिवशात् दारिद्रयवशात् बहुप्रमादः बहुविपदपि। पक्षे बहुप्रमादशब्दो यः पुमान् तव दशां कटाक्षाणां विषयः भवेत् स पुमान् पुरुषः पुल्लिङ्गो बहुप्रमादशब्दश्च मानिततां जगत्पूजिततां । पक्षे मावर्णेन अनिततां अयुक्ततां च प्राप्य बहुप्रदः दानशौण्डः भवेत्खलु । पक्षे बहुप्रद इति निष्पद्यतेत्यर्थः । अत्र लक्ष्मीकटाक्षप्रसरगुणेन दुर्गरपि महोदारतादिगुणाधानम् । एकस्मिन्नाधारे बहुप्रमादत्वबहुप्रदत्वरूपानेकाधेयवर्णनरूपपर्यायालंकारभितत्वं विशेषः। श्लेषादिसंकीर्णत्वं तु पूर्ववदेव ॥
यथावा
आदौ वैश्वानुगतोऽप्यग्रयनरो यस्स्वभावतः कश्चित् । दृष्टः क्रमेण अवता वौश्वानर एव भवति को विशयः ।। १६९३ ॥ __ हे भगवन् ! अप्रयनरः अग्रजन्मा मनुजः ब्राह्मणः वै इति प्रसिद्धौ। आदौ श्वाभिः अनुगतः श्वानुगतः “श्वक्रोडी श्येनजीवी
ALANKARA.III
22