SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 168 अलङ्कारमणिहारे त्कारी। अत्रापि भगवत्कटाक्षप्रभावरूपगुणेन कुलीरस्यापि कुलीननरत्वरूपगुणाधानम् । श्लेषसंकीर्णत्वं चमत्कारविशेषश्च पूर्ववदेव । संभावनाभितत्वं तु विशेषः॥ यथावात्वत्तो बहुप्रसादस्सारहितत्वाबहुप्रदश्व पुमान् । चातुर्वर्ण्यश्लाघ्यो भवेत्स्वयं जननि दान्तिमत्त्व. मयन् ॥ १६९१ ॥ हे जननि! स्वयं दान्तिमतो भावः दान्तिमत्त्वं दान्ततां अयन् प्रामुवन् । पक्षे दकारः अन्तिमो यस्य तस्य भावं अयन् पुमान् पुरुषः इदं विशेषणं बहुप्रसाद त्यस्य । त्वत्तः त्वदनुग्रहादिति यावत् । बहुप्रसादः त्वत्कृपाकृतबहुप्रसादविषयस्सनित्यर्थः । सारश्चासौ हितश्च सारहितः तस्य भावं सारहितत्वं तस्मात् अर्थिनामुत्तमहितत्वं प्राप्येत्यर्थः । ल्यब्लोपे पञ्चमी । यद्वा त्वत्तः त्वत्कटाक्षादिति यावत् । बहुः प्रसादः प्रसन्नता यस्य स तथोक्तः। अयं हि यिहातुस्सौम्यता सेयं पूर्णेन्दोरकलङ्कता' इत्युक्तो दातुमहान गुणः, अत एव सारहितत्वात् उक्त एवार्थः । बहुप्रदः स्थूललक्षो भूत्वा । पक्षे बहुप्रसादशब्दः सारहितत्वं सावर्णराहित्यं प्राप्य बहुप्रद इति निष्पद्यत इत्यर्थः । अतएव चातुर्वर्ण्यन ब्राह्मणादिवर्णचतुष्टयेन श्लाघ्यो भवेत् । पक्षे पञ्चवर्णात्मको बहुप्रसादशब्दस्सावर्णराहित्ये चतुवर्णत्वेनैव श्लाघ्यो भवेदित्यर्थः । प्राथमिकार्थपक्षे चत्वारो वर्णाश्चातुर्वर्ण्यमिति विग्रहः 'चतुवर्णादीनां स्वार्थे ' इति स्वार्थे प्यञ् । द्वितीयस्मिन् पक्षे तु चत्वारो वर्णा यस्येति बहुव्रीहिः । ततः
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy